________________
स्वोपज्ञलघुवृत्तिः
[५११]
भावे त्व-तल । ७ । १ । ५५ । षष्ठयन्ताद् भावे एतौ स्याताम् । शब्दस्य प्रवृत्तिहेतुगुणो भावः । गोत्वम्, गोता, शुक्लत्वम्, शुक्लता ॥ प्राक् त्वादगडुलादेः | ७ । १ । ५६ ।
“ब्रह्मणस्त्वः” (७-१-७७) इत्यतोऽर्वाक् त्वतलावधिकृतौ ज्ञेयौ, न तु गडुलादेः, तत्रैवोदाहरिष्येते । गडुलादि वर्जनं किम ? गाडुल्यम्, कामण्डलवम् ॥ ५६ ॥ नंतर पुरुषादबुधाऽऽदेः १७ । १ । ५७ ।
प्राक् त्वात् नञ् पूर्वात् तत्पुरुषाद् बुधाऽऽद्यन्तवर्जात् त्वः तलावेव स्याताम् इत्यधिकृतं ज्ञेयम् । अशुक्लत्वम्, अशुक्लता, अपतित्वम् अपतिता । अबुधादेरिति किम् ? आबुध्यम्, आचतुर्यम् ॥ ५७ ॥
पृथ्वादेरिमन् वा । ७ । १ । ५८ ।
एम्यो भावे वा इमन् स्यात् । प्रथिमा, पृथुत्वम्, पृथुता, पार्थवम् । श्रदिमा, मृदुता, मार्दवम् ॥ ५८ ॥
वर्णाऽऽदिभ्यः च वां । ७ । १ । ५९ । वर्णविशेषार्थेभ्यो ढाऽऽदेव तस्य भावे टयण इमन् च
१ अत्र भावस्य जात्याद्यर्थः । जातिचं नित्यैकानेकगता सामान्यपदाभिधेया द्रव्यगुणकर्मवृत्त वायिकमतेन । नित्यत्वे सति अनेक व्यक्तिसमवेतत्वं जातेर्लक्षणमिति, यथा गोत्वशुक्लत्वमनुष्यत्वादि । सा च मुख्यावान्तरमेदाभ्यां द्विधा ।
२ “ब्रह्मणस्त्वः” इति सूत्रस्थितत्वशब्दात् पूर्वं गडुलादीन् वर्जयित्वा स्वताधिकार इत्यर्थः । केचिद् गडुलाssदेरपीच्छन्ति, तन्मते गडुलत्वं गडुलतेति स्तः ।
""
३ अत्रैवकारात् "वर्णदृढादिभ्यः व्यण् च वा" इति व्यण् बाधितो भवति न शुक्लोऽशुक्लः, तस्य भावोऽशुक्लत्वमित्यत्र व्यणू न स्यात् । एवं “पति राजान्त...' ( ७-१-६० ) इति पतिराजान्तादिभ्यो विहितः व्यणु बाध्यते, तेनः नञ्पूर्वतत्पुरुषे: अपतित्वं अपतितेत्येव स्तः ।