________________
[420]
हैमशब्दानुशासनस्य तद् | ७ | १ | ५० ।
तदिति स्यन्तात्, स्यादिति सम्भाव्यात्, षष्ठयर्थे परिणामिनि सप्तम्यर्थे च यथाऽधिकृतं प्रत्ययः स्यात् । प्राकारीया इष्टकाः परशब्यमयः, प्रासादीयो देशः ॥ ५० ॥
तस्याऽहें क्रियायां वत् । ७ । १ । ५१ । तस्येति षष्ठयन्तात् क्रियारूपेऽर्हेऽर्थे वत् स्यात । राजबद् वृत्तं राज्ञः । क्रियायामिति किम् ? राज्ञोऽर्हो मणिः ॥ ५१ ॥
'स्यादेखि | ७ | १ | ५२ ॥
• स्याद्यन्ताद् इवार्थे सादृश्ये क्रियाऽर्थे वत् स्यात् । अश्ववद् याति चैत्रः, देववत् पश्यन्ति मुनिम् ॥ ५२ ॥
तत्र । ७ । १ । ५३ ।
तत्रेति सप्तम्यन्ताद् इवार्थे वत्स्यात् सुम्नवत् साकेते परिखा ।। ५३ ।।
तस्य । ७ । १ । ५४ ।
तस्येति षष्ठयन्तादिवार्थे वत् स्यात् । चैत्रवत् मैत्रस्य भूः ।। ५४ ।।
१ प्रथमाद्वितीया तृतीयचतुर्थी पञ्चम्याद्यन्तादित्यर्थः । बन्धुनैव बन्धुत्रत् स्नियति, सज्ञे ईव राजवत् स्वराज्याय दत्तं धनम्, पर्वतादिव पर्वतवत् पतति वृक्षाद् इति शेषाः प्रयोगाः । षष्ठी सप्तम्योस्त्वक्रियायामपि स्यात्, यथोत्तरत्र सूत्रे, राजवद् वृत्तं राजा वृत्तमित्यर्थः । पञ्चाशत्तमसूत्रे ईयाधिकारः समाप्तः । सादृश्यं नाम गुण. क्रियादिरूपं साधर्म्यम् । उपमायामिवस्थाने वत् प्रयुज्यते । उपमायाश्च उपमानोपमेयसाधारणधर्मा उपमावा व कश्चेषादिशब्दइति चत्वारि अङ्गानि सन्ति । साधारणधर्मवरवेन विख्यातं वस्तु उपमानम् । तद्धर्मवत्त्वेन कविबुद्धिगोचरं विधीयमानं वस्तु उपमेयम् । उपमानोपमेययोः खाधारणतया वर्तमानौ गुणक्रियादिरूपो धर्मः साधारणधर्मः यथा चन्द्रवत् प्रकाशते मुखम् । इववद् यथावानिभतुल्यादयः शब्दा उपमावाचकाः ।