SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः सर्वात् णो वा । ७।१ । ४३। अस्मात् तस्मै हिते णो वा स्यात् । सार्वः, सर्वीयः॥ परिणामिनि तदर्थे । ७ । १ । ४४ । चतुर्थ्यन्तात् चतुर्थ्यर्थे परिणामिनि हेतावर्थे यथाऽधिकृतं प्रत्ययः स्यात् । अङ्गारीयाणि काष्ठानि, शङ्कव्यं दारुः ॥४४॥ चर्मण्यञ् । ७।१। ४५। चतुर्थ्यन्तात् तदर्थे परिणामिनि चर्मण्यर्थेऽञ् स्यात् । वार्ध चर्म ॥४५॥ ऋषभोपानहात् ज्यः । ७।१ । ४६। आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे ज्यः स्यात। आर्षभ्यो वत्सा, औपनह्यो मुञ्जः ॥४६॥ छदिसूचलेरेयण । ७।१।४७ । आभ्यां चतुर्थ्यन्ताम्यां परिणामिनि तदर्थे एयण् स्यात् । छादिषेयं तृणम् , बालेयास्तण्डुलाः ॥ ४७॥ परिखाऽस्य स्यात् । ७।१ । ४८। अस्मात् स्यन्तादस्येति षष्ठयर्थे परिणामिन्येयण स्यात्, सा चेत् स्यादितिसम्भाव्या । पारिखेय्य इष्टकामा - अत्र च । ७।१ । ४९ । परिखायाः स्यादितिसम्भाव्यायाः स्यन्तायाः, अत्रेति सप्तम्यर्थे एयण् स्यात । पारिखेयी भूमिः ॥ ४९ ॥ १ परिणामि द्रव्यमुपादानकारणम् , तस्मिन्नभिधेये। अजारेभ्य इमानि अङ्गारीयाणि काष्ठानि, अत्र काष्ठानि परिणामोनि । एवं प्राकारीया इष्टकाः, बार्धादि। ___ २ प्रथमान्तात् । सा चेद् अनेनोपादानकारणेन कृतास्पादिति संभाव्यतेऽनुमीयते इत्यर्थः । यथा 'इष्टकानां परिखा स्यात् ' इत्यनुमीयते इति पारिखेय्यः इष्ठकाः, णित्त्वाद् जीप वृद्धिश्च ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy