________________
हैमशब्दानुशासनस्य
प्राण्यङ्ग-रथ-खल-तिल-यव-वृष-ब्रह्म-मा
षाद् यः | ७ | १ | ३७ । प्राण्यङ्गार्थेभ्यो रथादिभ्यश्चतुर्थ्यन्तेभ्यो हिते यः स्यात् । दन्त्यम्, रथ्या भूमिः, खल्यम्, तिल्यम्, यव्यम्, वृष्यं क्षारम्, ब्रह्मण्यो देशः, माध्यः, राजमाष्यः ॥ ३७ ॥
[५०८ ]
अव्यजात् ध्यप् । ७ । १ । ३८ ।
आभ्यां तस्मै हिते थ्यप् स्यात् । अविध्यम्, अजथ्या यूतिः ॥ ३८ ॥
चरक - माणवाद् ईनञ् । ७ । १ । ३९ । आभ्यां तस्मै हिते इनञ् स्यात् । चारकीणः, माणवीनः ॥ ३९ ॥
भोगोत्तरपदाऽऽत्मभ्यामीनः । ७ । १ । ४० । भोग उत्तरपदं यस्य तस्माद्, आत्मनश्च तस्मै हिते ईनः स्यात् । मातृभोगीणः, आत्मनीनः ॥ ४० ॥ पञ्च सर्व-विश्वात् जनात् कर्मधारये । ७ । १ । ४१ ।
पञ्चादेः परात् जनात् कर्मधारयवृत्तेः तस्मै हिते ईनः स्यात् । पञ्चजनीनः, सर्वजनीनः, विश्वजनीनः। कर्म्मधारय इति किम् १ पञ्चानां जनाय हितः पञ्चजनीयः ॥ महत्-सर्वाद् इक । ७ । १ । ४२ |
आभ्यां परात् जनात् कर्मधारयवृत्तेस्तस्मै हिते इकण् स्यात् । माहाजनिकः सार्वजनिकः ॥ ४२ ॥
१ पञ्चानां जनः तस्मै जनाय हित इति वाच्यम् । अत्र कर्मधारया भावान ईनः । पञ्चजनेभ्यो हितः पञ्चजनीन इत्यत्र प्रस्तुतसूत्रादीनप्रत्ययः ।