________________
स्वोपज्ञलघुवृत्तिः ५ ०७ उवर्ण-युगाऽऽदेयः । ७ । १ ॥ ३० । - उवर्णान्ताद् युगाऽऽदेवाऽऽतदोऽर्थेषु यः स्यात् । शङ्कव्यं दारु, युग्यं, हविष्यम् ॥ ३० ॥
नामेने चाऽदेहांशात् । ७।१।३१ ।
अदेहांशार्थात् नामेरा तदोऽर्थेषु यः स्यात,नभू चाऽस्य। नभ्योऽक्षः। अदेहांशादिति किम् ? नाभ्यं तैलम् ॥३१॥
न्चोधसः ।७।१ । ३२ । आ तदोऽर्थेषु ऊधसो यः स्थात्, न्चान्तस्य। औधन्यम्॥
शुनो वश्वोदृत् । ७ । १ । ३३ । आ तदोऽर्थेषु शुनो यः स्यात् , वश्च उद्रूपः। शुन्यम् , शून्यम् ॥ ३३॥
__ कम्बलात् नाम्नि । ७।१ । ३४ ।
अस्मादा तदोऽर्थेषु नाम्नि यः स्यात् । 'कम्बल्यम् ऊर्णापलशतम् । नाम्नीति किम् ? कम्बलीया ऊर्णा॥३४॥
तस्मै हिते।७।१।३५। तस्मै इति चतुर्थ्यन्तात हितेऽर्थे यथाऽधिकृतं प्रत्ययः स्यात् । वत्सीयः, आमिक्ष्यः, आमिक्षीयः, युग्यः ॥३५॥ न राजाऽऽचार्य-ब्राह्मण-वृष्णः । ७।१।३६ ।
एभ्यश्चतुर्थ्यन्तेभ्यो हितेऽधिकृतः प्रत्ययो न स्यात् । राज्ञे, आचार्याय, ब्राह्मणाय, वृष्णे वा हित इति वाक्य मेव ॥ ३६॥ १-पस्सेभ्यो हितो-वत्सीयः। आमिक्षायै हित आमिक्ष्य इत्यत्र "हविरन्नमेदा..." (७-१-२९) सूत्रात् यः, पक्षे ईयः । एवं शुने हितं शुन्यं शून्यमिति "शुनो वश्वोदूतू " सूत्रात् सिष्यति ।