________________
[५०४] हैमशब्दानुशासनस्य
शकटादण् । ७। १।७। अस्मात् नं वहत्यर्थेऽण् स्यात् । शाकटो गौः ॥७॥
विध्यत्यनन्येन।७।१।८। द्वितीयान्ताद विध्यत्यर्थे यः स्यात्, न चेदात्मनोऽन्येन करणेन विध्येत् । पद्याः शर्कराः। अनन्येनेति किम् ? . . चौरं विध्यति चैत्रः॥८॥
धनगणात् लब्धरि ।७।१।९। आम्याममन्ताभ्यां लब्धयर्थेयःस्यात्।धन्या, गण्यः।।
__ णोऽन्नात् । ७ । १ । १०। अन्नाद् अमन्तात् लब्धरि णः स्यात । आन्नः॥१०॥ हृद्य-पद्य-तुल्य-मूल्य-वश्य-पथ्य वयस्य-धेनुष्या
गार्हपत्य-जन्य धर्म्यम् । ७।१।११। एतेऽर्थविशेषेषु यान्ता निपात्या। हृद्यमौषधम् , पद्यः पङ्कः, तुल्यं भाण्डं सदृक्षम्, मूल्यं धान्यं पटादिविक्र. याल्लभ्यं च, वश्यो गौः, पथ्यमोदनादि, वंयस्यः सखा, धेनुष्या पीतदुग्धा गौः, गार्हपत्यो नामाग्निः, जन्या वरवयस्याः, धम्य सुखम् ॥ ११ ॥
नौ-विषेण ताय-वध्ये । ७।१। १२ । आभ्यां निर्देशादेव तृतीयान्ताभ्यां यथासङ्खधं तार्ये वध्ये चार्थे यः स्यात् । नाव्या नदी, विष्यो गज ॥ १२ ॥ १ पादौ विध्यन्तीति पद्याः। "हिमहतिकाषिये पद्” इति पदादेशः । २ अमन्ताद् द्वितीयाप्रत्ययान्ताद् । एवं टान्तात् इति तृतीयाप्रत्ययान्तादित्यर्थः ।
३ हृदयस्य प्रियं हृद्यम् । पदमस्मिन् दृश्यं पद्यः पङ्कः । तुलया संमितं तुल्य भाष्डम् , मूलमेषासुत्पाट्यं मूल्यं धान्यम् , मूलैनाऽऽनम्यं मूल्यम् । वशं गतो वश्यः । पथो मार्गादनपेतं, पथ्यम् । वयसा तुल्यो वयस्यो मित्रार्थे: अन्यत्र तु नैवं स्यात् । गृहपतिना संयुक्तो गार्हपत्यो ।