________________
स्वोपजलघुवृत्तिः [५०३]
अर्हम् ॥ अथ सप्तमाध्यायस्य प्रथमः पादः॥
यः।७।१।१। यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र ईयोदर्वाग् य इत्यधिकृतं ज्ञेयम् ॥ १॥
वहति रथ-युग-प्रासङ्गात् । ७।१ ।२।
तमिति वर्तते । एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यः स्यात् । द्विरथ्यः, युग्यः। प्रासको वत्सवमनस्कन्धकाष्ठम् । प्रासङ्ग्यः ॥२॥
धुरो यैयण । ७।१।३। धुरो द्वितीयान्ताद् वहत्यर्थे एतौ स्याताम् । धुर्यः, धौरेयः ॥३॥
'वामाऽऽद्यादेरीनः । ७ । १।४। वामादिपूर्वाद् धुरन्तादमन्ताद वहत्यर्षे ईमः स्यात वामधुरीणः, सर्वधुरीणः ॥ ४ ॥
अश्चैकाऽऽदेः । ७। १।५। एकपूर्वाद् धुरन्तादमन्ताद वहत्यर्थे अ ईनश्च स्यात। एकधुरः, एकधुरीणः ॥ ५॥
हल-सीराद् इकण । ७।१।६। - आभ्यां तं वहत्यर्थे इकण् स्यात् । हालिकः, सैरिकः।। . १ "ईयः” (७-१-२८) इति सूत्रेण ईयः प्रत्ययः, तस्मात् पूर्वमपवाद परित्यज्य याधिकारो वर्तते ।
२ वामा चासौ धृश्चेति समासान्तत्वादापि वामधुरा, तां वहतीति वामधुरीणः, केवलादपीति कश्चित् , धुरीणः । एवमेकधुर-हालिकशाकटादिश्यपि पद्धतिः।