SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ [५०२] हेमशब्दानुशासनस्य ___ पात्रात् तो ।६। ४ । १८० । द्वितीयान्तात् पात्राद् अर्हति य-इयौ स्याताम् । पात्र्यः, पात्रियः ॥ १८०॥ दक्षिणा-कडङ्गर-स्थालीविलाद ईय-यो । ६ । ४।१८१ । एभ्यो द्वितीयान्तेभ्योऽहत्यर्थे ईययौ स्याताम् । दक्षिणीयो, दक्षिण्यो गुरुः, कडङ्गरीयः, कडङ्गर्यो गौः, स्थालीबिलीयाः, स्थालीविल्यास्तण्डुलाः ॥१८१ ॥ लेदाऽऽदेर्नित्यम् । ६ । ४ । १८२ । अस्माद् द्वितीयान्तान्नित्यमर्हति यथोक्तं प्रत्ययः स्यात्, छैदिकः भैदिकः ॥ १८२ ॥ विरागाद् विरङ्गश्च । ६ । ४ । १८३ । .. अस्माद् द्वितीयान्तानित्यमर्हति यथोक्तं प्रत्ययः स्यात् , तयोगे चास्य विरङ्गः । वैरङ्गिकः ॥ १८३ ॥ शीर्षच्छेदाद् यो वा । ६ ॥ ४ ॥१८४ । अस्माद् द्वितीयान्सान्नित्यमर्हति यो वा स्यात् । शीर्षच्छेद्या, शीर्षच्छेदिकौरः ॥१८४॥ शालीन कौपीनाऽऽर्विजीनम् । ६।४।१८५। एते तमहतीत्यर्थे ईनअन्ता निपात्याः । शालीनोऽधृष्टः, कौपीनं पापकर्मादिः, आर्वजीनो यजमान ऋस्विग्वा ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधा. मस्वोपज्ञशब्दानुशासनलघुवृत्तौ षष्ठस्याध्यायस्य . षष्ठोध्यायः समाप्तः॥६॥ ४ ॥ ॥ इति षष्ठोऽध्यायः॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy