SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ .. स्वोपज्ञलघुवृत्तिः [५०५] न्यायाऽर्थादनपेते ।७।१।१३। आभ्यां पञ्चम्यन्ताभ्यामनपेतेऽर्थे यः स्यात् । न्या. य्यम् , अर्थ्यम् ॥ १३ ॥ मत-मदस्य करणे । ७ । १ । १४ । आभ्यां षष्ठयन्ताभ्यां करणे यः स्यात् । मत्यम् , मद्यम् ॥ १४ ॥ तत्र साधौ । ७।१।१५। तत्रेति सप्तम्यन्तात् साधावर्थे यः स्यात् । सभ्यः ।। पथ्यतिथिचसति-स्वपतेरेयण । ७।१।१६। एभ्यस्तत्र साधावेयण् स्यात् । पाथेयम्, आतिथ्यम् , वासतेयम् , स्वापतेयम् ॥१६॥ भक्तात् णः ।७।१ । १७। भक्तात् तत्र साधौ णः स्यात् । भाक्तः शालिः ॥१७॥ पर्षदो ण्य-गी।७।१।१८। तत्र साधौ स्याताम् । पार्षद्यः, पार्षदः ॥ १८॥ सर्वजनात् ण्येनौ । ७।१ । १९ । तत्र साधौ स्याताम् । सार्वजन्यः सार्वजनीनः॥ . प्रतिजनादेरीनन् । ७।१।२०। तत्र साधौ स्यात् । पातिजनीनः, आनुजनीनः ॥२०॥ कथाऽदेरिकण । ७।१।२१ । तत्र साधौ स्यात् । काथिकः, वैकथिकः ॥ २१ ॥... देवतान्तात् तदर्थे । ७।१ । २२ । देवताऽन्तात् तदर्थे यः स्यात् । अग्निदेवत्यं हविः ॥ . 1 ण्य-ईनञ् इत्येतौ स्वः । सर्वजनेषु साधुरेति विग्रहः । एवमन्यत्रापि ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy