________________
स्वोपज्ञलघुपत्तिः [४९९) दीयते इत्यर्थयोरिकः स्यात् , प्रथमान्तं वेदू वृद्धयादि। द्वितीपिका, अर्द्धिकः ॥१५९ ॥
भागाद येकौ । ६ । ४ । १६० । भागात् तदस्मिन्नस्मै वा वृद्धयाचन्यतमं देयमितिविषये य-इको स्याताम् । भाग्यः, भागिका ॥१६॥
तं पचति द्रोणाद् वाऽन ।६।४।१६१ ।
तमिति द्वितीयान्ताद द्रोणात् पचत्यर्थे वाऽ स्यात् । द्रौणी, द्रौणिकी स्थाली ॥ १६१ ॥
सम्भवदवहरतोश्च । ६ । ४।१६२ ।। द्वितीयान्तात् पचत्-सम्भवद्-अवहरत्सु यथोक्तं प्रत्ययः स्यात् । आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः । अतिरेकेणावहारः । प्रास्थिकी स्थाली ॥ १६२॥ : पात्राऽऽचिताऽऽढकादुईनो वा ।६।४ । १६३ । .. एभ्यो द्वितीयान्तेभ्यः पचदाद्यर्थे ईनो वा स्यात् । पात्रीणा, पात्रिकी, आचितीना, आचितिकी । आढ. कीना, आदकिकी ।। १६३ ॥
द्विगोरीनेकटौ वा । ६।४।१६४ । - पात्राऽऽचिताऽऽहकान्ताद् द्विगोवितीयान्तात् पचदाद्यर्थे ईन-इकटौ वा स्याताम्, पक्षे इकण, तस्य चानाम्नी त्यादिना प्लुप, नानयोर्विधानबलात् । द्विपात्रीणा, द्विपात्रिकी, द्विपात्री । याचितीना, द्वयाचितिकी, याचिता । व्याढकीना, व्याढकिकी, याढकी ॥ १६४॥
१ “अनाम्म्यद्विः प्लुप् " (६-४-१४१) इत्यनेन । द्वे पात्रे पचति संभबत्यवहरति वा स्नो द्विपात्रीणा । आचितशब्दान्तात् स्त्रियां गर्न भवति लकि निषेधात् ।