________________
[ ५०० ]
हेमशब्दानुशासनस्य
कुलिजाद् वा लुप् च । ६ । ४ । १६५ ॥ कुलिजान्ताद् द्विगोर्द्वितीयान्तात् पचदाद्यर्थे ईने कटौ वा स्याताम्, पक्षे इकणू, तस्य च वा लुप् । द्विकुलिजीना, द्विकुलिजिकी, द्विकुलिजी द्वैकुलिजिकी ।। १६५ ॥ वंशाऽऽदेर्भाराद हरदु वहदावहत्सु | ६ | ४ | १६६ । एभ्यः परो यो भारस्तदन्ताद् द्वितीयान्तात् एष्वर्थेषु यथोक्तं प्रत्ययः स्यात् । वांशभारिकः, कौट भारिकः ॥
द्रव्य स्नात् केकम् । ६ । ४ । १६७ | आभ्यां द्वितीयान्ताभ्यां हरदाद्यर्थे यथासङ्ख्यं क इकश्च स्यात् । द्रव्यकः, वस्निकः ॥ १६७ ॥ सोऽस्य 'भृति चस्नांशम् । ६ । ४ । १६८ । स इति प्रथमान्ताद् भृत्याद्यर्थाद अस्येति षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् । पञ्चकः कर्मकृत् पटो ग्रामो वा, साहस्रः ॥ १६८ ॥
मानम् | ६ | ४ | १६९ ।
स्यन्तं
1
प्रथमान्तात षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात्, चेद् मानम् । द्रौणिकः, खारीको राशिः ॥ १६९ ॥ जीवितस्य सन् । ६ । ४ । १७० । जीवितमानार्थात् स्यन्तात् षष्ठयर्थे यथोक्तं प्रत्ययः स्यात, तस्य च नै लुप् । द्विषाष्टिको ना ॥ १७० ॥ सङ्ख्यायाः संघ-सूत्रपाठे । ६ । ४ । १७१ ।
अस्मात् स्यन्ताद् अस्य मानमित्यर्थे यथोक्तं प्रत्ययः
१ मृतिर्वेतनम् | वस्नो नियतकालक्रयमूल्यम् । पञ्चास्य भृतिर्वस्नं वा पञ्चकः । २ " अनाम्न्यद्विः" इति लुप् न स्यात् । द्वे षष्ठी जीवितमानमस्य द्विषाष्टिकः ।