________________
[४९८] हैमशब्दानुशासनस्य । द्विस्वर-ब्रह्मवर्चसाद योऽसङ्ख्या परिमाणा
श्वाऽऽदेः । ६ । ४ । १५५। सङ्ख्यापरिमाणाऽश्वादिवर्जात् द्विस्वराद् ब्रह्मवर्च साच षष्ठयन्ताद् हेतौ संयोगे उत्पाते वा य: स्यात् । धन्या, ब्रह्मवर्चस्यः। सङ्ख्यादिवर्जनं किम् ? पञ्चकः, . . प्रास्थिका, आश्विकः ॥१५५ ॥ 'पृथिवी-सर्वभूमेरीश ज्ञातयोश्वाञ् । ६ । ४ । १५६ ।
आभ्यां षष्ठयन्ताभ्यामीशज्ञातयोस्तस्य हेतुः संयोग उत्पात इति विषये चाऽञ् स्यात् । पार्थिवः, सार्वभौम ईशो ज्ञातः संयोगोत्पातरूपो हेतुळ ॥ १५६ ॥
लोक-सर्वलोकाद् ज्ञाते । ६ । ४ ।१५७
आभ्यां षष्ठयन्ताभ्यां ज्ञातेऽर्थे यथोक्तं प्रत्ययः स्यात। लौकिकः, सार्वलौकिकः ॥ १५७ ॥ तदत्राऽस्मै वा वृद्धयाय-लाभापदा-शुल्क
देयम् । ६।४ । १४८ । तदिति प्रथमान्ताद् अत्रेति सप्तम्यर्थेऽस्मै इति चतुर्थ्यथे वा यथोक्तं प्रत्ययः स्यात् , तचेत् प्रथमान्तं वृद्धयादि देयं च स्यात् । वृद्धिः, पञ्चकं शतम् । आयः पञ्चको प्रामः । लाभः पञ्चकः पटः। उपदा लश्चा। पञ्चको व्यवहारः । शुल्क, पञ्चकं शतम् , एवं शत्यं, शतिकम् ।। १५८ ॥
पूरणाऽौद् इकः । ६ । ४ । १५९ । पूरणप्रत्ययान्ताद‘च प्रथमान्ताद् अस्मिन् अस्मै वा
। धनस्य हेतुः संयोग उत्पातो वा धन्यः । गव्यस्तु “गोः स्वरे यः" (पृ० ४०४) सूत्रात् स्यात् । २ पृथिव्या ईशः, जातः, हेतुः संयोग उत्पातो वा पार्थिवः । एवं सार्वभौमः ।