________________
स्वोपज्ञलघुत्तिः [४९५] कंसाऽर्द्धात् । ६ । ४ । १३५ । आभ्यामाऽहंदर्थे इकट् स्यात्। कंसिकी, अर्द्धिकी ॥
सहस्र-शतमानादण । ६ । ४ । १३६ । आभ्यामाऽर्हदर्थेऽण् स्यात् । साहस्रा, शातमानः ॥
शूपद् वाऽञ्। ६।४। १३७ । आहँदथैवाऽञ् स्यात् । शौर्पम् शौर्पिकम् ॥१३७॥
वसनात् । ६।४ । १३८ । आऽहंदर्थेऽञ् स्यात् । वासनम् ॥ १३८ ॥
विंशतिकात् । ६।४ । १३९ । आऽहंदर्थेऽञ् स्यात् । बैंशतिकम् ॥ १३९ ॥ - द्विगोरीनः। ६।४।१४०। विंशतिकान्ताद द्विगोराऽहंदर्थे ईनः स्यात। द्विवि. शतिकीनम् ॥ १४ ॥ . अनादिः 'प्लुप । ६ । ४ । १४१ ।
द्विगोराऽहंदर्थे जातस्य प्रत्ययस्य पित् लुप् स्यात् , न तु द्विः, अनाम्नि । द्विकंसम् । अनाम्नीति किम् ? पाश्चलोहितिकम् । अद्विरिति किम् ? द्विशूर्पण क्रीतं द्विशौपिकम् ॥ १४१॥
नवाऽणः । ६ । ४ । १४२ । द्विगोः परस्याऽऽर्हदर्थेऽणः पित् लुब् वा स्यात् , न तु द्विः। द्विसहस्रम् , द्विसाहस्रम् ॥ १४२ ॥
१ लुपः पित्करणात् “क्या-मानि-पित्तद्धिते' इति सूत्रेण पञ्चगर्ग इत्यादिषु पुंवद्भावः ।