________________
[ ४९४ ]
हैमशब्दानुशासनस्य
,
स्यात्, असंज्ञाविषये । त्रिंशकम् विंशकम् त्रिंशकः, विंशकः । असंज्ञायामिति किम् ? त्रिंशत्कम्, विंशतिकम् ॥ १२९ ॥
सङ्ख्या- डतेश्चाऽशत्-ति- टेः कः । ६ । ४ । १३० ।
शदन्त-त्यन्त-ष्टयन्तवर्जसइख्याया इत्यन्तात त्रिंशद्विंशतिभ्यां चाऽऽहृदर्थे कः स्यात् । द्विकम्, कतिकम्, त्रिंशत्कम्, विंशतिकम् । अशत्तिष्ठेरिति किम् ? चात्वारिंशत्कम्, साप्ततिकम्, षाष्टिकम् ॥ १३० ॥
शतात् केवलादतस्मिन् येकौ । ६ । ४ । १३१ ।
शतात् केवलादाऽर्हदर्थे य-इको स्थाताम् स चेदर्थः प्रकृत्यर्थात् नाऽभिन्नः । शत्यम्, शतिकम् । केवलादिति किम् । द्विशतकम् । अतस्मिन्निति किम् ? शतकं स्तोत्रम् ॥ १३१ ॥
वाऽतोरिकः । ६ । ४ । १३२ । अत्वन्तसङ्ख्याया आर्हदर्थे इको वा स्तात् । याव - तिकम्, यावत्कम् ॥ १३२ ॥ कार्षापणाद् इकट् प्रतिश्चास्य वा । ६ । ४ । १३३ । अस्मादादिर्थे इकटू स्यात्, अस्य च प्रतिर्वा । कार्पापणिकी, प्रतिकी ॥ १३३ ॥
अर्द्धात् पल कंस-कर्षात् । ६ । ४ । १३४ | अर्द्धपूर्वात् पलाद्यन्तादाहृदर्थे इकट् स्यात् । अर्द्धपलिकम्, अर्द्धकंसिकम्, अर्द्धकर्षिकी ॥ १३४ ॥
१ कार्षापणशब्दस्य प्रति इत्यादेशो वा स्यात् । कार्षापणेन क्रीतं कार्षापणिकं, पक्षे, प्रतिकं, टित्त्वाद् स्त्रियां ङीः। एवमुपरि अधश्च बोध्यमा अईदर्थाद् । आ अभिविधावस्ति ।