SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [४९३] समयात् प्राप्तः । ६।४।१२४ । समयात् प्रथमान्तात् षष्ठयर्थे इकण स्यात् , चेत् समयः प्राप्तः । सामयिकं कार्यम् ॥ १२४ ॥ ऋत्वादिभ्योऽण् । ६ । ४ । १२५। - एभ्यः प्रथमान्तेभ्यः सोऽस्य प्राप्त इत्यर्थेऽण् स्यात् । आर्तवं फलम् , औपवस्त्रम् ॥ १२५ ।। .. कालाद् यः । ६।४ । १२६ । कालात् सोऽस्य प्राप्त इत्यर्थे यः स्यात् । काल्या मेघाः ॥ १२६ ॥ दीर्घः । ६ । ४ । १२७ । कालात् प्रथमान्तादस्येत्यर्थे इकण स्यात् , प्रथमान्त. वेद दीर्घः । कालिकमृणम् ॥१२७ ॥ ___ आकालिकमिकश्चाऽऽद्यन्ते । ६।४ । १२८ । आकालिकाद् इक इकण् च भवत्यर्थे स्यात्, आदि. रेव यदि अन्तः । आकालिकोऽनध्यायः, पूर्वेयुर्यस्मिन् काले प्रवृत्तोऽपरेधुरपि आ तस्मात् कालाद् भवतीत्यर्थः । आकालिकी, आकालिका वा विद्युत् , आजन्मकालंमेव स्यात्, जन्मानन्तरनाशिनीत्यर्थः ॥ १२८॥ ... त्रिंशत्-विंशतेर्डकोऽसंज्ञायामाऽर्ह दर्थे । ६ । ४ । १२८ । आभ्यामा अहंद●द् योऽर्थों वक्ष्यते तस्मिन् डकः १ आदिरेव यदि अन्ततया बोध्यते, यथा यस्मिन् क्षणे विद्युदुत्पन्ना तस्मिन्नेव क्षणे विनष्टा, विद्युतो जन्मलक्षणादिकालो विनाशलक्षणान्तकालादभिन्न इति भावः आकालिकोऽनध्याय इत्यत्र यद्यपि गतः कालोऽपरेयुर्न प्रत्यावर्ततें, तथापि सामान्येन घटिकायामादिवेलाऽपेक्षया तुल्य उच्यते ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy