SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ [४९२] हैमशब्दानुशासनस्य प्रयोजनम् । जैनमहिकं देवागमनम् ॥ ११७ ॥ एकागारात् चौरे । ६ । ४ । ११८। अस्मात् तदस्य प्रयोजनमितिविषये चौरेऽर्थे इकण् स्यात् । ऐकागारिकः ॥ ११८ ॥ चूडाऽऽदिभ्योऽण् । ६ । ४ । ११९ ॥ एभ्यस्तदस्य प्रयोजनमितिविषयेऽण स्यात् । चौर्ड श्राद्धम् ॥ ११९ ॥ विशाखाऽऽषाढात् मन्थ-दण्डे ।६।४।१२० . आभ्यां तदस्य प्रयोजन मितिविषये यथासङ्ख्यं मन्ये दण्डे चाऽर्थेऽण स्यात् । वैशाखो मन्थः, आषाढो दण्डः ॥ उत्थापनाऽऽदेरीयः । ६ । ४ । १२१ । एभ्यस्तदस्य प्रयोजनमितिविषये ईयः स्यात् । उत्थापनीयः, उपस्थापनीयः ॥ १२१ ॥ विशि-रहि-पदि-पूरि-समापेरनात् सपूर्व पदात् । ६ । ४ । १२२ । एभ्योऽनान्तेभ्यः सपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यर्थे ईयः स्यात्। गृहप्रवेशनीयम् , आरोहणीयम् , गोप्रपदनीयम् , प्रपापूरणीयम् , अङ्गसमापनीयम् ॥ १२२ ॥ स्वर्ग-स्वतिवाचनाऽऽदिभ्यो य-लुपौ ।६।४।१२३। - स्वर्गादेः स्वस्तिवाचनादेश्च तदस्य प्रयोजनमित्यर्थे यथासंख्यं यो लुप् च स्यात् । स्वय॑म् , आयुष्यम् , स्वस्तिवाचनम् , शान्तिवाचनम् ॥ १२३ ॥ .. १ जिनमहः प्रयोजनमस्य जैनमहिकम् । जिनजन्मादिषु देवां आगच्छन्तीत्याचारः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy