SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः . [४९१] वर्षादश्च वा । ६ । ४ । १११ । कालवाचिवर्षान्ताद् द्विगोस्तेन निवृत्ते इत्यादिपश्चकविषये ईनोऽश्व वा स्यात् । द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः ॥ १११ ॥ . प्राणिनि भूते । ६।४।११२। कालार्थवर्षान्ताद् द्विगोभूते प्राणिन्यर्थे अः स्यात् । द्विवर्षों वत्सः। प्राणिनीति किम् ? द्विवर्षः द्विवर्षीणः, द्विवर्षिकः सरकः ॥ ११२ ॥ मासाद् वयसि यः।६। ४ । ११३ । मासान्ताद् द्विगोभूतेऽथै यः स्यात् , वयसि गम्ये । द्विमास्यः शिशुः । वयसीति किम् ? द्वैमासिको व्याधिः ॥ ११३ ॥ ईन च । ६।४ । ११४ । मासाद् भूतेऽर्थे इनञ् यश्च स्यात , वयसि गम्ये । मासीनः, मास्यः शिशुः ॥११४ ॥ षण्मासाद्य-यण-इकण । ६।४।११५। अस्मात् कालार्थाद् भूतेऽर्थे एते स्युः, वयसि गम्ये । षण्मास्यः, पाण्मास्यः, पाण्मासिकः शिशुः ॥११५ ॥.. सोऽस्य ब्रह्मचर्य तदताः। ६ । ४ । ११६। स इति प्रथमान्तात् कालादिस्येति षष्ठयर्थे, ब्रह्मचर्ये, ब्रह्मचारिण चेकण स्यात् । मासिकं ब्रह्मचर्यम्, मासिकस्तद्वान् ॥ ११६ ॥ प्रयोजनम् । ६ । ४ । ११७ । प्रथमान्तात् षष्ट्यर्थे इकण स्यात् , प्रथमान्तं चेत्
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy