SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ [४८८] हेमशब्दानुशासनस्य स्थलाऽऽदेर्मधुक-मरिचेऽण् । ६ । ४ । ९१ । स्थलपूर्वपदात् पथिनन्तादाहृते मधुके मरिचे चार्थेऽगू स्यात् । स्थालपथं मधुकम्, मरिचं वा ॥ ९१ ॥ तुरायण-पारायणं यजमानाऽधीयाने । ६ । ४ । ९२ । आभ्यां द्वितीयान्ताभ्यां यथासङ्ख्यं यजमानाधीयानयोरिकण स्यात् । तौरायणिकः, पारायणिकः ॥ ९२ ॥ संशयं प्राप्ते ज्ञेये । ६ । ४ । ९३ । संशयमिति द्वितियान्तात् प्राप्ते ज्ञेयेऽर्थे इकण् स्यात् । सांशयिकोऽर्थः ॥ ९३ ॥ तस्मै योगाऽऽदेः शक्ते । ६ । ४ । ९४ । एभ्यस्तस्मै इति चतुर्थ्यन्तेभ्यः शक्तेऽर्थे इकण् स्यात् । यौगिकः, सान्तापिकः ॥ ९४ ॥ योग- कर्मभ्यां योaat | ६ । ४ । ९५ । आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथासङ्ख्यं य उ कञौ स्याताम् । योग्यः, कार्मुकम् ॥ ९५ ॥ यज्ञानां दक्षिणायाम् । ६ । ४ । ९६ । एभ्यः षष्ठ्यन्तेभ्यो दक्षिणायामर्थे इकण् स्यात् । आग्निष्टोमिकी ॥ ९६ ॥ तेषु देये । ६ । ४ । ९७ । यज्ञार्थभ्यः सप्तम्यन्तेभ्यो देयेऽर्थे इकणू स्यात् । वाजपेयिकं भक्तम् ॥ ९७ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy