SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ स्वीपज्ञलघुवृत्तिः _ [४८९]. काले कार्ये च भववत् ।६।४।९८। कालार्थात् सप्तम्यन्ताद् देये कार्ये चार्थे , भवे इव प्रत्ययाः स्युः । यथा वर्षासु भवं वार्षिकम् , तथा कार्य देयं च ॥९८॥ व्युष्टाऽऽदिष्वः । ६।४ । ९९ । एभ्यः सप्तम्यन्तेभ्यो देये कार्ये चाग स्यात् । वैयुष्ठम् , . नैत्यम् ॥९९ ॥ यथाकथाचात् णः । ६।४।१००। अस्माद् देये कार्ये चार्थे णः स्यात् । याथाकथाचम् ॥ तेन हस्ताद् यः। ६।४ । १०१ । तेनेति तृतीयान्ताद् हस्ताद् देये कार्ये च यः स्यात् । हस्त्यम् ॥ १०१ ॥ शोभमाने । ६ । ४ । १०२ । ' टान्तात् शोभमाने इकण् स्यात् । कार्णवेष्टकिकं मुखम् ॥ १०२॥ कर्म-वेषाद् यः। ६ । ४ । १०३ । आभ्यां टान्ताभ्यां शोभमानेऽर्थे यः स्यात् । कर्मण्यं शौर्यम् , वेष्यो नटः॥ १०३॥ कालात् परिजय्य-लभ्य-कार्य-सुकरे।६।४।१०४॥ कालविशेषार्थात् टान्तात् परिजय्याऽऽदाव) इकण्. स्यात् । मासिको व्याधिः, पटा, चान्द्रायणं, प्रासादो वा ॥ १०४॥ १ अनादरेणेत्यर्थे यथाकथाच इत्यव्ययोऽस्ति । यथाकथाच दीयते इति विग्रहः । २ कर्णवेष्टकाभ्यां कुण्डलाभ्यां शोभते इति । एवं कर्मण्यवेष्यावपि ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy