________________
[४८६] हैमशब्दानुशासनस्य
प्रस्तारसंस्थानाभ्यां तदन्तेभ्यः, कठिनान्ताच व्यवहरत्यर्थे इकण् स्यात् । प्रास्तारिका, सांस्थानिका, कांस्यप्रस्तारिका, गौसंस्थानिकः वांशकठिनिकः ॥७९॥ सङ्ख्याऽऽदेश्चाईदलुचः । ६ । ४ । ८० ।
अहं दर्थमभिष्याप्य याप्रकृतिर्वक्ष्यते तस्याः केवलायाः . सख्यापूर्वायाश्च वक्ष्यमाणः प्रत्ययः स्यादिति ज्ञेयम् , न चेत् सा लुगन्ता। चान्द्रायणिका, द्वैचन्द्रायणिकः । अलुच इति किम् ? द्विशूर्पण क्रीतेन क्रीतं द्विशौर्पिकम् ।।
गोदानाऽऽदीनां ब्रह्मचर्य । ६ । ४ । ८१ ।
एभ्यः षष्ठयन्तेभ्यो ब्रह्मचर्येऽर्थे इकण् स्यात् । गौदा. निकम्, आदित्यवतिकम् ॥ ८१॥
चद्रायणं च चरति ।६। ४ । ८२ । अस्माद् द्वितीयान्तादू गोदानाऽऽदेश्च परत्यर्थे इकण स्यात् । चान्द्रायणिकः गौदानिकः ॥ ८ ॥
देवव्रताऽऽदीन डिन् । ६ । ४ । ८३ । एभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे डिन् स्यात् । देवव्रती, महाप्रती ।। ८३ ॥ उकश्वाऽष्टाचत्वारिंशतं वर्षाणाम् । ६।४ । ८४ ।
वर्षाणामष्टाचत्वारिंशतो द्वितीयान्तात् चरत्यर्थे डको डिन् च स्यात् । अष्टाचत्वारिंशका, अष्टाच. त्वारिंशी ॥ ८४ ॥
चातुर्मास्यतो यलुक् च ।६। ४।०५। . अस्माद् द्वितीयान्तात् चरत्यय डक-डिनौ स्याताम् , यस च । चातुर्मासकः, चातुर्मासी ॥ ८५ ॥ .