SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः भक्तौदनाद्वाऽणिक | ६ । ४ । ७२ । आभ्यां यथासङ्ख्यमण् - इकटौ वा स्याताम्, तदस्मै नियुक्तं दीयते इतिविषये । भाक्तः, औदनिकी । भाक्तिकः, औदनिकः ॥ ७२ ॥ नवयज्ञाऽऽदयोऽस्मिन् वर्त्तन्ते । ६ । ४ । ७३ । एभ्यः प्रथमान्तेभ्यो वर्त्तन्ते इत्युपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण् स्यात् । नावयज्ञिकः पाकयज्ञिकः ॥ ७३ ॥ तत्र नियुक्ते । ६ । ४ । ७४ । " तत्रेति सप्तम्यन्ताद् नियुक्तेऽर्थे इकण् स्यात् । शौल्कशालिकः ॥ ७४ ॥ [ ४८५ ] अगारान्ताद् इकः । ६ । ४ । ७५ । अस्मात् तत्र नियुक्ते इकः स्यात । देवागारिकः ॥ अदेश - कालादध्यायिनि । ६ । ४ । ७६ । अध्ययनस्य यौ प्रतिषिद्धौ देशकालौ, तदर्थात् सप्तम्यन्ताद् अध्यायिन्यर्थे इकण् स्यात् । आशुचिका, सान्ध्यकः ॥ निकटाऽऽदिषु वसति । ६ । ४ । ७७ । एभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकण् स्यात् । नैकटिकः, आरण्यको भिक्षुः, वार्क्षमूलिकः ॥ ७७ ॥ सतीर्थ्यः । ६ । ४ । ७८ । समानतीर्थात् तत्र वसत्यर्थे यो निपात्यते, समानस्य च स भावः । सतीर्थ्यः ॥ ७८ ॥ प्रस्तार-संस्थान-तदन्त कठिनान्तेभ्यो व्यवहरति । ६ । ४ । ७९ । १ वृक्षमूळे वसतीति वार्क्ष मूलिकः । समानतीर्थे गुरौ वसतीति सवर्ध्यः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy