________________
[४८४]
हेमशब्दानुशासनस्य
'नास्तिकाऽऽस्तिक दैष्टिकम् । ६ । ४ । ६६ ।
एते तदस्येत्यर्थे इकणन्ता निपात्यन्ते । नास्तिकः, आस्तिकः, दैष्टिकः ॥ ६६ ॥
• वृत्तोऽपपाठोऽनुयोगे । ६ । ४ । ६७ । प्रथमान्तात् षष्ठयर्थे इकणू स्यात्, तच्चेदनुयोगविषये वृत्तोsपपाठ: । ऐकान्यिकः ॥ ६७ ॥
बहुस्वरपूर्वाद् इकः । ६ । ४ । ६८ । बहुस्वरं पूर्वपदं यस्य तस्मात् प्रथमान्तात् षष्ठ्यर्थे इकः स्यात्, तचेत् परीक्षायां वृत्तोऽपपाठः । एकादशान्यिकः ॥ ६८ ॥
भक्ष्यं हितमस्मै | ६ | ४ | ६९ |
प्रथमान्ताद् अस्मै इति चतुर्थ्यर्थे इकण् स्यात् तचेत् भक्ष्यं हितम् । आपूपिकः ॥ ६९ ॥ नियुक्तं दीयते । ६ । ४ । ७० ।
प्रथमान्तात् चतुर्थ्यर्थे इकण् स्यात्, तच्चेत् नियुक्तमव्यभिचारेण नित्यं वा दीयते । आग्रभोजनिकः ॥ ७० ॥ श्राणा- मांसौदना इको वा । ६ । ४ । ७१ । आभ्यां तदस्मै नियुक्तं दीयते इतिविषये इकः प्रत्ययो वा स्यात् । श्राणिका, श्राणिकी। मांसौदनिका, मांसौदनिकी ॥ ७१ ॥
१ नास्ति परलोकः पुण्यपापमोक्षादिर्वेति मतिरस्यासौ नास्तिकः । नास्तिको वेदनिन्दक इत्यादिवाक्यानि तु प्रमाणयुक्तिशून्यानि । नास्तिको जैननिन्दकः, नास्तिक: कुराननिन्दकः, नास्तिको बौद्धशास्त्रादिनिन्दक इत्यपि कश्चिद् वदेत्; तथा च समग्रं जगत् नास्तिकं स्यात् एवं च मोक्षाभावः प्रभूतकलहं चोत्पद्येत अस्तिनास्ती अव्यये स्तः । दिष्टं भाग्यम् ।