________________
स्वोपज्ञलघुवृचिः
[ ४८३ ]
शीलम् । ६ । ४ । ५९ । प्रथमान्तात् शीलार्थात् षष्ठयर्थे इक स्पात् ।
आपूपिकः ॥ ५९ ॥
अङस्थाच्छत्राऽऽदेरञ् । ६ । ४१६० । अदन्तात् स्थः छत्रादेव तदस्य शीलमितिविषयेऽन स्यात् । आस्थः, छात्रः, तापसः ॥ ६० ॥
तूष्णीकः । ६ । ४ । ६१ ।
तूष्णीमः तदस्य शीलमितिविषये कः मुलुकू च स्वात । सूष्णीकः ॥ ६१ ॥
प्रहरणम् । ६ । ४ । ६२ ।
प्रथमान्तात् षष्ठर्थे इकणू स्यात्, तत् प्रहरणं चेत् । आसिकः ॥ ६२ ॥
परश्वधाद् वाऽण् । ६ । ४ । ६३ ।
अस्मात् तदस्य प्रहरणमितिविषयेऽणू वा स्वात् । पारश्वधः, पारश्वधिकः ।। ६३ ।।
शक्ति-यष्टेः टीकण । ६ । ४ । ६४ ।
आभ्यां तदस्य प्रहरणमितिविषये टीकण् स्यात् । शाक्तनकी, याष्टीकी ॥ ६४ ॥
वेष्ट्यादिभ्यः । ६ । ४ । ६५ । एभ्यस्तदस्य प्रहरणमित्यर्थे टीकण् वा स्यात् । ऐष्टीकी, ऐष्टिकी । ऐषीक, ऐषिकः ॥ ६५ ॥
१ आस्था शीलमस्य आस्थः । “उपसर्गादातः” (५ -३ - ११० ) इत्य प्रत्ययः २ असिः प्रहरणमस्य आसिकः । अनया रीत्या पारश्वधशाक्तिक्यैष्टिक्यादीनां निमहः ।