________________
[४७२] हैमशब्दानुशासनस्य
गच्छति पथि दूते। ६ । ३ । २०३ । अमन्तात् पथि दूते च गच्छत्यर्थे यथोक् प्रत्ययः स्यात् । स्रोप्नः पन्था दूतो वा, ग्राम्यः॥ २०३ ॥
भजति । ६।३। २०४ । अमो भजत्यर्थे यथोक्तं प्रत्ययः स्यात् । स्रोमः, . राष्ट्रियः ॥ २०४॥
__ महाराजाद् इकण् । ६।३।२०५। अतोऽमो भजतीकण स्यात् । माहाराजिकः ॥ २०५।।
अचित्ताद् अदेशकालात् । ६।३ । २०६ । - देशकालवर्जे यदचेतनं तदर्थादमो भजतीकण् स्यात् । आपूपिकः । अचित्तादिति किम् ? देवदत्तः अदेशेत्यादि किम् ? स्रोमः, हैमनः ॥ २०६ ॥
वासुदेवाऽर्जुनाद् अकः । ६ । ३ । २०७।
आभ्याममन्ताभ्यां भजत्यर्थेऽकः स्यात् । वासुदेवकः, अर्जुनकः ॥२०७॥
गोत्र-क्षत्रियेभ्योऽक प्रायः। ६ । ३ । २०८ । गोत्रार्थात् क्षत्रियार्थाचाऽमन्ताद् भजत्यकञ् प्रायः स्यात् । औपगवकः, नाकुलकः । प्रायः किम् ? पाणिनीयः।।
सरूपाद् द्रेः सर्व राष्ट्रवत् । ६ । ३।२०९ ।
राष्ट्रक्षत्रियार्थात् सरूपाद् यो द्विरुक्तः तदन्तस्याऽमो भजत्यर्थे सर्व प्रकृतिः प्रत्ययश्च राष्ट्रस्येव स्यात । वाय, माद्र, पाण्ड्यं वा भजति वृजिकः मद्रका, पाण्डवकः । सरूपादिति किम् ? पौरवीयम् ॥२०९॥