SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [ ४७१] एभ्यस्तेन कृतेऽकञ् स्यात्, नानि । कौलालकं घटादिभाण्डम्, वारुटकं शूर्पपिटकादि ॥ १९४ ॥ सर्वचर्मण ईन ईन । ६ । ३ । १९५ । तेन कृते नाम्नि स्याताम् । सर्वचमिणः, सार्वचमणः ॥ १९५ ॥ उरसो याणौ । ६ । ३ । १९६ ॥ औरसः ॥ तेन कृते स्याताम्, नाम्नि । उरस्यः, छन्दस्यः । ६ । ३ । १९७ । छन्दसस्तेन कृते यो नाम्नि निपात्यः ॥ १९७ ॥ अमोsधिकृत्य ग्रन्थे । ६ | ३ | १९८ | द्वितीयान्तादधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्ययः स्यात् । भाद्रः ॥ १९८ ॥ 'ज्योतिषम् । ६ । ३ । १९९ । ज्योतिषोऽमोऽधिकृत्य कृते ग्रन्थेऽणू, वृद्धधभावश्च निपात्यः ।। १९९ ॥ शिशुक्रन्दाऽऽदिभ्य ईयः | ६ | ३ | २०० | एम्योsusधकृत्य कृते ग्रन्थे ईयः स्यात् । शिशुऋन्दीयः यमसभीयो ग्रन्थः ॥ २०० ॥ द्वन्द्वात् प्रायः | ६ | ३ | २०१ | द्वन्द्वादमधिकृत्य कृते ग्रन्थे प्राय ईयः स्यात् । वाक्यपदीयम्। प्राय इति किम् । देवासुरम् ॥ २०१ ॥ अभिनिष्क्रामति द्वारे | ६ | ३ | २०२ | अमन्ताद् द्वारे निर्गच्छत्यर्थे यथोक्तं प्रत्ययः स्यात् । माथुरम्, नादेयम्, राष्ट्रिय द्वारम् ॥ २०२ ॥ १ ज्योतोयधिकृत्य कृतो ग्रन्थो ज्योतिषमित्युच्यते । सूत्रमेवोदाहरणम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy