________________
[४७०] हेमशब्दानुशासनस्य
काश्यप कौशिकाद् वेदवच । ६ ।३ । १८८। ... आभ्यां तेन प्रोके पुराणे कल्पे णिन् स्यात् , वेदवच कार्यमस्मिन् । काश्यपिना, कौशिकिना, काश्यपको धर्मः ॥ १८८ ॥ शिलालिपाराशर्यात् नट-भिक्षुसूत्रे । ६ । ३ । १८९ ।
आम्यां तेन प्रोके यथासङ्ख्यं नटसूत्रे भिक्षुसूत्रे चणिन् स्यात् , वेदवच्च कार्यमस्मिन् । शैलालिनो नटा, पाराशरिणो भिक्षवः ॥ १८९॥
कृशाश्वकर्मन्दाद् इन् । ६।३ । १९०।।
आभ्यां तेन प्रोक्ते यथासङ्ख्यं नटसूत्रे भिक्षु सूत्रे चेन स्यात् , वेदवच कार्यमस्मिन् । कुशाश्विनो नटाः, कर्मन्दिनो भिक्षवः ॥ १९०॥ .
उपज्ञाते । ६।३ । १९१ ।, - प्रागुपदेशाद् विनाज्ञाते टान्ताद् यथाविहितं प्रत्ययः स्वात् । पाणिनीयं शास्त्रम् ॥ १९१ ॥
कृते । ६ । ३ । १९२ । टान्ताव कृतेऽर्थे यथाविहितं प्रत्ययाः स्युः। शैवो ग्रन्थः, सिद्धसेनीयः स्तवः ॥ १९२ ॥
नाम्नि मक्षिकाऽऽदिभ्यः॥६।३ । १९३ । एभ्यष्टान्तेभ्यो यथाविहितं कृते प्रत्ययः स्यात् । माक्षिकं मधु, सारघम् ॥ १९३ ॥
कुलालाऽऽऽदेरका।६।३। १९४ ।
पाणिनेन पाणिनिना वा प्रथमतो ज्ञातं पागिनीय शास्त्रं व्याकरणम् । एवं प्रोक्ते कृतेऽपि चार्थे वेदितव्यम् । पाणिनिना प्रोक्तं कृतं वा शास्त्रं पाणिनीयमित्युच्यते