________________
स्वोपज्ञलघुवृत्तिः
[ ४६९ ]
वहेः 'तुरिश्चाऽऽदिः । ६ । ३ । १८० | वहेर्यस्तृशब्दः तदन्तात् तस्येदमर्थेऽञ् स्यात्, तुरादिरिश्व | सांवहित्रम् ॥ १८० ॥ तेन प्रोक्ते । ६ । ३ । १८१ ।
तेनेति दान्तात् प्रोक्ते यथाविहितं प्रत्ययाः स्युः । भाद्रबाहवं शास्त्रम्, पाणिनीयम्, बार्हस्पत्यम् ॥ १८१ ॥ मौदाऽऽदिभ्यः । ६ । ३ । १८२ ।
एभ्यस्तेन प्रोक्ते यथाविहितमग् स्यात् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदा, पैप्पलादाः ॥ कठादिभ्यो वेदे लुप् । ६ | ३ | १८३ |
एभ्यः प्रोक्ते वेदे प्रत्ययस्य लुप् स्यात् । कठाः, चरकाः ॥ १८३॥
तित्तिरिवरतन्तु खण्डको खाद ईयण् । ६ । ३ । १८४ | grade प्रोक्ते वेदे ईयण् स्यात् । तैत्तिरीयाः, वारतन्तवीयाः, खाण्डिकीयाः, औखीयाः ॥ १८४ ॥
छगलिनो यिन । ६ । ३ | १८५ | तेन प्रोक्ते येदे णेयिन् स्यात् । छागलेयिनः ॥ १८५ ॥ शौनकाऽऽदिभ्यो णिन् । ६ । ३ । १८६ | तेन प्रोक्ते वेदे णिन् स्यात् । शौनकिनः, शाङ्गरविणः ॥ ९८६ ॥
पुराणे कल्पे । ६ । ३ । १८७ । टान्तात् प्रोक्ते पुराणे कल्पे णिन् स्यात् । पैङ्गी कल्पः ॥
१ तृचः तृनो वा तृशब्दान्तात् तस्येदमर्थेऽन, तृशब्दात् पूर्व इकारश्च स्यादिति भावः ।