SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुत्तिः [४७३] टस्तुल्यदिशि। ६।३। २१०। ट इति तृतीयान्तात् तुल्यदिश्यर्थे यथोक्तं प्रत्ययः स्यात् । सौदामनी विद्युत् ॥ २१०॥ तसिः । ६।३ । २११ । टाऽन्तात् तुल्यदिक्के तसिः स्यात् । सुदामतो विद्युत् ॥२११ ॥ यश्चोरसः । ६।३।२१२ । अतः टाऽन्तात् तुल्यदिक्के य-तसी स्याताम् । उरस्या, उरस्तः ॥ २१२ ॥ सेर्निवासादस्य । ६ । ३ । २१३ ।। सेरिति प्रथमान्तानिवासार्थाद, अस्येति षष्ठयर्थे यथोक्तं प्रत्ययः स्यात् । स्रोघ्नः, नादेयः ॥ २१३ ॥ . आभिजनात् । ६।३ । २१४ । : अभिजनाः पूर्वबान्धवाः । तन्निवासार्थात् स्यन्तात् षष्ठयर्थे यथोक्तं प्रत्ययः स्यात् । सौनः, राष्ट्रियः ॥२१॥ . शण्डिकाऽऽदेण्यैः ॥६ । ३। २१५ । अस्मात् स्यन्तादाभिजननिवासार्थाद् अस्येत्यर्थे ण्यः स्यात् । शाण्डिक्यः, कोचवार्यः ॥ २१५॥ सिन्ध्वादेन । ६ । ३।२१६ । अस्मात् स्यन्तादाभिजननिवासार्थात् षष्ठयर्थेऽञ् स्यात् । सैन्धवः, वार्णवः ॥ २१६ ॥ १ सुदाम्ना पर्वतेनैकदिग् विद्युत् , एवं तसि परेऽपि । उरसा एकदिग् इत्यादि। २ सुघ्न आभिजनो निवासोऽस्य स्रौनः । एवं शाण्डिक्य-सैन्धवसालातुरीयादिषु । सालैस्ततं सालततं तच्च तत् पुरं च सालतत्पुरम् , पृषोदरादित्वात् सालातुरः, "सालातुराद् ईयग्" सूत्रगेपणि प्रत्यये परे सालातुरीयः सिध्यति ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy