________________
स्वोपज्ञलघुवृत्तिः
[ ४६३]
रूढावन्तः पुराद् इकः । ६ । ३ । १४० । अस्मात् तत्रभवे इकः स्यात, रूदौ गम्यायाम् । अन्तःपुरिका । रूढाविति किम् ? आन्तःपुरः || १४० ॥ कर्ण- ललाटात कल | ६ | ३ | १४१ |
आभ्यां तत्रभवे कल् स्यात्, तदन्तस्य रूढौ । कर्णिका कर्णाssभरणम्, ललाटिका ललाटमण्डनम् ॥ १४१ ॥ तस्य व्याख्याने च ' ग्रन्थात् | ६ |३ | १४२ ।
तस्येति षष्ठयन्ताद् व्याख्यानेऽर्थे, सप्तम्यन्ताच भवे ग्रन्थार्थाद् यथाविहितं प्रत्ययः स्यात् । कार्त्तम् प्रातिपदिकीयं व्याख्यानं, भवं वा ॥ १४२ ॥
प्रायो बहुस्वराद् इकण | ६ | ३ | १४३ ।
| बहुस्वराद् ग्रन्थार्थात् तस्य व्याख्याने, तत्र भवे च प्राय इकण स्यात् । पात्वणत्विकम् । प्रायोग्रहणात् सांहितम् ॥ १४३ ॥
,
ऋच्-ऋद्-द्विस्वर-यागेभ्यः । ६ । ३ । १४४ ।
ऋचन्ताद्, ऋदन्ताद्, द्विस्वराद् यागार्थेभ्यश्च ग्रन्थवृत्तिभ्यस्तस्य व्याख्याने तत्र भवे चेकणू स्यात् । आर्चिकम्, चातुर्होतुकम्, आङ्गिकम्, राजसूयकम् ॥ १४४ ॥
ऋषेरध्याये | ६ | ३ | १४५ |
ऋष्यर्थाद् ग्रन्थवृत्तेस्तस्य व्याख्याने तत्र भवे चाध्याये इण् स्यात् । वाशिष्ठिकोऽध्यायः । अध्याय इति किम् ? वाशिष्ठी ऋक् ॥ १४५ ॥
१ ग्रन्थः शब्दसन्दर्भः । स व्याख्यायते येन तद् व्याख्यानम् । चकारेण तत्र भव इत्यनुवृत्तिः, वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाक्यार्थमेव समुच्चिनोतीति वचनात् । कृता व्याख्यानं कृत्सु भवं वा कार्तम् ।
›