SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ हमशब्दानुशासनस्य [४६४] हैमशब्दानुशासनस्य पुरोडाश-पौरोडाशाद् इकेकटौ । ६ । ३ । १४६ । आभ्यां ग्रन्थार्थाभ्यां तस्य व्याख्याने तत्र भवे इक् इकट् च स्यात् । पुरोडाशिका, पुरोडाशिकी, पौरोडाशिका, पौरोडाशिकी ॥ १४६ ॥ छन्दसो यः।६।३। १४७।। अस्माद् ग्रन्थार्थात् तस्य व्याख्याने तत्र भवे च यः स्यात् । छन्दस्यः॥ १४७ ॥ शिक्षाऽऽदेश्चाण। ६ । ३ । १४८ । एभ्यो ग्रन्थार्थेभ्यः छन्दसश्च तस्य व्याख्याने तत्र भवे चाऽण् स्यात् । शैक्षः, आर्गयनः, छान्दसः ॥ १४८ ॥ तत आगते । ६।३। १४९ । . तत इति पञ्चम्यन्ताद् आगतेऽर्थे यथाविहितमणएयणादयः स्युः । स्रोतः, गव्यः, नादेयः, ग्राभ्यः ॥ १४९ ॥ विद्या-योनिसम्बन्धादक । ६ । ३ । १५० । विद्यायोनिकृतश्च सम्बन्धो येषां तदर्थात् पञ्चम्यन्तादागतेऽर्थेऽका स्यात् । आचार्यकम् , पैतामहकम् ॥१५०॥ पितुर्यों वा । ६ । ३ । १५१। पितुर्योनिसम्बन्धार्थात् पञ्चम्यन्तादागते यो वा स्यात् । पित्र्यम्, पैतृकम् ॥ १५१॥ ऋत इकण् । ६ । ३। १५२ ॥ ऋदन्ताद् विद्यायोनिसम्बन्धार्थात् तत आगते इकण् स्यात् । होतकम् , मातृकम् ॥ १५२ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy