________________
[४६२] हैमशब्दानुशासनस्य आषाढ्यादिपौर्णमासी ।। १३३ ॥
यज्ञे ञ्य-। ६।३।१३४। चतुर्मासात् तत्र भवे यज्ञे ञ्यः स्यात् । चातुर्मास्या यज्ञाः ॥ १३४ ॥ गम्भीर-पञ्चजन-बहिष-देवात् । ६ । ३ । १३५ ।
एभ्यस्तत्र भवे ज्यः स्यात् । गाम्भीर्यः, पाश्चजन्यः, बाधः, दैव्यः ॥ १३५ ॥ परिमुखाऽऽदेख्ययीभावात् । ६ । ३ । १३६ । अस्मात् तत भवे ज्यः स्यात् । पारिमुख्यः, पारिहनव्यः।।
अन्तःपूर्वाद् इकण । ६.। ३ । १३७ । अन्तःपूर्वपदाव्ययीभावात् तत्र भवे इकण् स्यात् । आन्तरगारिकः ॥ १३७ ॥
पयेनोर्गामात् । ६।३ । १३८ । आभ्यां परो यो ग्रामः, तदन्तादव्ययीभावात् भवे इकण् स्यात् । पारिवामिका, आनुग्रामिकः ॥ १३८ ॥ उपात जानु-नीवि-कर्णात् प्रायेण । ६।३।१३९ ।
उपाद ये जान्वादयः तदन्तादव्ययीभावादिकण् स्यात् । प्रायेण तत्र भवे । औपजानुका सेवकः, औपनीविकं ग्रीवादाम, औपकर्णिकः सूचकः ॥ १३९ ॥
आषाढी कात्तिको फाल्गुनी च पौर्णमासी चातुर्मासीपौर्णमासी नाम्ना भण्वते, धर्मपर्वतया च मन्यते स्म जैनशास्त्रेषु । साम्प्रतं च चतुर्दशीदिनं तादृग् पर्व मन्यते तत्र जैनैर्विशेषतया पौषधादिधर्मकृत्यं विधीयते । अत्र "द्विगोरनपत्ये, (पृ. ४०३) इति लप् न भवति, विधानबलात् ।
२ अगारस्यान्तर्मध्ये अन्तरगार तत्र भव आन्तरगारिका, णित्त्वाद् वृद्धिः। एवमुत्तरसूत्रे प्रामात् पनि, तत्र भवः पारिग्रामिकः । ग्रामस्य समीपमनुप्राम तत्र भर भानुप्रामिक इत्यादि बोध्यम् ।