________________
स्वोपज्ञलघुवृत्तिः [४६१] .. जिह्वामूलाऽङ्गुलेश्चेयः । ६ । ३ । १२७ ।
आभ्यां सप्तम्यन्ताभ्यां मध्याच भवे ईयः स्यात् । जिह्वामूलीयः, मध्यीयः ॥ १२७॥
वर्गान्तात् । ६।३।१२८ । अस्मात् सप्तम्यन्ताद् भवे ईयः स्यात् । कवर्गीयो वर्णः ॥ १२८ ॥
ईन-यौ चाऽशब्दे । ६ । ३ । १२९ । वर्गान्तात् सप्तम्यन्ताद् भवे एतावीयश्च स्युः, न तु शब्दे । भरतवर्गीणः, भरतवर्यः । शब्दे तु कवर्गीयः॥ दृति-कुक्षि कलशि-वस्त्यहेरेय'। ६।३।१३०।
एभ्यः सप्तभ्यन्तेभ्यो भवे एयण स्यात् । दार्तयं जलम्, कौक्षेयो व्याधिः, कालशेयं तक्रम्, वास्तेयं पुरीषम्, आहेयं विषम् ॥ १३०॥
. आस्तेयम् । ६।३ । १३१ ।
अस्तेर्धन-विद्यमानार्थात् तत्र भवे एयण स्यात् , असृजो वा अस्त्यादेशश्च । आस्तेयम् ।। १३१ ॥
ग्रीवातोऽण च । ६ । ३ । १३२ । अतो भवेऽण्-एयणौ स्याताम् । ग्रैवम्, अवेयम् ॥१३२॥
चतुर्मासात् नाम्नि । ६।३ । १३३ । अस्मात् तत्र भवेऽण् स्यात् , नाम्नि । चातुर्मासी
१ काशिर्मन्यनी, तत्र भवं तक्रं कालशेयम् । बस्तिमूत्राशयः । वसत्यस्या मूत्रं बस्तिः "प्लुज्ञा..." (उणादि. ६४६) सूत्रेण तिप्रत्ययः । तत्र भवं वास्तेयम् । बृहवृत्तौ वस्तिः पुरीषनिर्गमरन्ध्रार्थकोऽस्ति । अहिः सर्पः तत्र भबमाहेयम् ।