SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ [ ४६० ] हेमशब्दानुशासनस्य ग्रीष्म वसन्ताद् वा । ६ । ३ । १२० । आभ्यां सप्तम्यन्ताभ्यामुप्तेऽर्थेऽकञ् वा स्यात् । ग्रैष्मग्रैष्मं सस्यम् । वासन्तकम्, वासन्तम् ॥ १२० ॥ व्याहरति मृगे | ६ | ३ | १२१ | कम्, सप्तम्यन्तात् कालार्थाद् व्याहरति मृगेऽर्थे यथाविहितं प्रत्ययः स्यात् । नैशिको नैशो वा शृगालः, प्रादोषिकः, प्रादोषो वा । मृग इति किम् ? वसन्ते व्याहरति कोकिला ॥ १२१ ॥ जयिनि च । ६ । ३ । १२२ । सप्तम्यन्तात् कालार्थात् जयिन्यर्थे यथाविहितं प्रत्ययः स्थात् । निशाभवमध्ययनं निशा, तत्र जयी नैशिकः नैशः, प्रादोषिकः, प्रादोषः, वार्षिकः ॥ १२२ ॥ भवे । ६ । ३ । १२३ । सप्तम्यन्ताद्भवेऽर्थे यथाविहितमणेपणादयः स्युः । स्त्रौघ्नः, औत्सः, नादेयः, ग्राम्यः ॥ १२३ ॥ दिगादिदेहांशाद् यः । ६ । २ । १२४ । दिगादेर्देहावयवार्थाच्च सप्तम्यन्ताद् भवे यः स्यात् । दिश्यः, अप्सन्यः, मूर्द्धन्यः ॥ १२४ ॥ नाम्न्युदकात् । ६ । ३ | १३५ । | उदकात् सप्तम्यन्ताद् भवेऽर्थे यो नाम्नि स्यात् । उदक्या रजस्वला ।। १२५ ।। मध्याद दिन - ईया मोऽन्तश्च | ६ | ३ | १२६ । मध्यात् सप्तम्यन्तात् भवे एते स्युः, तद्योगे च मोऽन्तः । माध्यन्दिनाः, माध्यमः, मध्यमीयः ॥ १२६ ॥ ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy