SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [४५९] कालादु देये ऋणे। ६।३ । ११३ । सप्तम्यन्तात कालार्थाद् देये ऋणेऽर्थे यथाविहितं प्रत्ययः स्यात् । मासिकमृणम् ॥ ११३ ॥ कलाप्यश्वत्थ-यवबुसोमाव्यासैपमसो. ____ऽकः । ६। ३ । ११४ । एभ्यःसप्तम्यन्तेभ्यो देये ऋणेऽक: स्यात् । कलापकम् , अश्वत्थकम् , यवबुसकम् , उमाव्यासकम् एषेमकरणम्। ग्रीष्माऽवरसमादकत्र । ६ । २ । ११५। आभ्यां कालार्थाभ्यां सप्तम्यन्ताभ्यां देये ऋणेऽकञ् स्यात् । श्रेष्मकम् , आवरसमकमृणम् ॥ ११५ ॥ संवत्सराऽऽग्रहायण्या इकण च । ६ ।३।११६ । . आभ्यां सप्तम्यन्ताम्यां देये ऋणे इक , अकव च स्यात् । सांवत्सरिकम् , सांवत्सरकं फलं पर्व वा, आग्र. हायणिकम् , आग्रहायणकम् ॥ ११६ ॥ साधु-पुष्यत्-पच्यमाने । ६।३। १९७। - सप्तम्यन्तात् कालविशेषार्थाद एषु यथाविहितं प्रत्ययाः स्युः। हैमनं, हैमन्तमनुलेपनम् , वासन्त्यः कुन्दलताः, शारदाः शालयः ॥ ११७ ॥ . . उप्ते । ६।२ । ११८ । सप्तम्यन्तात् कालार्थादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः। शारदा यवाः, हैमनाः ॥ ११८ ॥ आश्वयुज्या अकञ् । ६।३ । ११९ । अस्मात् सप्तम्यन्तादुप्तेऽर्थेऽकञ् स्यात् । आश्वयुजका माषाः॥ ११९ ॥ १ माघौ पुष्यति पच्यमाने चार्थ हैमन्तादीनि क्रमशः त्रीण्युदाहरणानि बन्ति ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy