________________
[४५८] हेमशब्दानुशासनस्य बहुलाऽनुराधा-पुष्पार्थ-पुनर्वसु-हस्त-विशाखा
स्वातेल्प् ।६।३।१०७। एम्यः सप्तम्यन्तेभ्यः परस्य माऽणो जातेऽर्थे लुप् स्यात्, नाम्नि । बहुलः , अनुराधः, पुष्यः, पुनर्वसुः, इस्तः, विशाखा, स्वातिः शिशुः॥ १०७ ।।
चित्रा-रेवती-रोहिण्याः स्त्रियाम् ।६।३।१०८)
एभ्यः सप्तम्यन्तेम्यो भाषणो जाते स्त्रियां नाम्नि लुप स्यात । चित्रा स्त्री, रेवती, रोहिणी ॥ १०८॥
बहुलमन्येभ्यः।६।२।१०९ । श्रविष्ठादिभ्योऽन्येभ्यो भाऽर्थेभ्यः सप्तम्यन्तेभ्यो भाऽणो जातेऽर्थे लुब् बहुलं नाम्नि स्यात् । आभिजित् , आभिजितः, अश्वयुक्, आश्वयुजः । कचिन्नित्यम् , अश्विनः । क्वचिन्न स्यात् , माघः ॥ १०९ ॥ स्थानान्त-गोशाल-खरशालात् ।६।३ । ११०।
एभ्यः सप्तम्यन्तेभ्यः परस्य जाने प्रत्ययस्य नाम्नि लुप् स्यात् ।गोस्थानः, गोशाला, खरशालःशिशुः॥११०॥
वत्सशालादा । ६।३।१११ । अस्मात् सप्तम्यन्ताजाते प्रत्ययस्य नाम्नि लुब् वा स्यात् । वत्सशालः, वात्सशालः ॥ १११ ॥
सोदर्य-समानोदयौँ ।६।३।११२ । एतो जातेऽर्थे यान्तौ निपात्येते । सोदयः, समानोदर्यो माता ॥ ११२ ॥ १ बहुलासु कृत्तिकामु जातो बहुलः। अत्राणो लुपि ड्यादे!णस्या...'(२-४-१५) सूत्रेणापोऽपि लुप् ।