SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [ ४५७ ] प्रावृष इकः । ६ । ३ । ९९ । अस्मात् सप्तम्यन्तात् जाते इकः स्यात् । प्रावृषिकः ॥ नाम्नि शरदोऽकञ् । ६ । ३ । १०० । शरदः सप्तम्यन्तात् जातेऽकञ् स्यात्, नाम्नि । शारदका दर्भाः । नाम्नीनि किम् ? शारदं सस्यम् ॥ १००॥ सिन्ध्वपकरात काणौ । ६ । ३ । १०१ । आभ्यां सप्तम्यन्ताभ्यां जाते कोऽण् च स्यात्, नाम्नि | सिन्धुकः, सैन्धवः, अपकरकः, आपकरः ॥ १०१ ॥ पूर्वाणाऽपराहणाऽऽर्द्रा-मूल-प्रदोषावस्कराद् अकः । ६ । ३ । १०२ । एभ्यः सप्तम्यन्तेभ्यो जातेऽको नाम्नि स्यात् । पूर्वाह्नकः, अपराह्नकः, आर्द्रकः, मूलकः, प्रदोषकः अवस्करकः ।। पथः पन्थ च । ६ । ३ । १०३ । पथः सप्तम्यन्तात् जाते को नाम्नि स्यात्, तद्योगे पन्थः । पन्थकः ॥ १०३ ॥ अश्व वाऽमावास्यायाः । ६ । २ । १०४ । , अस्मात् सप्तम्यन्तात् जाते अः, अकश्च नाम्नि वा स्यात् । अमावास्यः, अमावास्यका, आमावास्यः ॥ १०४ ॥ श्रविष्ठाषाढा ईयण च । ६ । २ । १०५ | आभ्यां सप्तम्यन्ताभ्यां जाते ईयणू अश्च नाम्नि स्यात् । श्राविष्ठीयः, श्रविष्ठः, आषाढीयः, अषाढः ॥ फल्गुन्याष्टः । ६ । ३ । १०६ । अस्मात् सप्तम्यन्तात् जाते दो नाम्नि स्यात् । फल्गुनः ॥ १०६ ॥ १ सन्ध्यादित्वात् पक्षे "भ-ऋतु - अन्ध्यादेरणू" (६-३-८९) सूत्रादग् । ५८
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy