SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ [३५६] मशब्दानुशासनस्य । हेमन्ताद् वा, तलुक् च । ६ ।३।९१ । अस्माच्छेषेऽर्थेऽण वा स्यात् , तद्योगे च तो वा लुक् । हैमनम् , हैमन्तम् , हैमन्तिकम् ॥९१ ॥ प्रावृष एण्यः । ६ । ३ । ९२ ।.. अस्मात् शेषेऽर्थे एण्यः स्यात् । प्रावृषेण्यः ॥ ९२॥ स्थामा जिनान्तात् लुप् । ६ । ३ । ९३ । स्थामान्तादजिनान्ताच परस्य शैषिकस्य लुप् स्यात् । अश्वत्थामा, सिंहाजिनः ॥ ९३ ॥ . तत्र कृत-लब्ध-क्रीत-सम्भूते । ६ ।३।९५/ तत्रेति सप्तम्यान्तादेष्वर्थेषु यथायोगमणादय एयणा. दयश्च स्युः । सौघ्नः, औत्सः, बाह्या, नादेयः, राष्ट्रियः ॥ __कुशले । ६।३।९५ । सप्तम्यन्तात् कुशलेऽर्थे यथाविहितमण-एयणादयः स्युः। माथुरः, नादेयः ।। ९५ ॥ पथोऽकः । ६।३।९६ । सप्तम्यन्तात् पथः कुशलेऽक: स्यात् । पथकः ॥१६॥ कोऽश्मादेः । ६।३। ९७ । . अस्मात् सप्तम्यन्तात् कुशले कः स्यात् । अश्मकः, अशनिकः ॥ ९७॥ जाते ।६।३।९।। सप्तम्यन्तात् जातेऽर्थे यथाविहितमणेयणादयः स्युः। माथुरः, औत्सः, पायः, नादेयः, राष्ट्रियः ॥ ९८॥ १ "अः स्थाम्नः' (६-१-२२) इति प्रारिजतीयेऽर्य कृतस्य अस्य छप् जातः।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy