SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [४५५] ___श्वसस्ताऽऽदिः। ६ । ३ । ८४ । श्वसः कालार्थात् शेषेऽर्थे तादिरिकण वा स्यात् । शौवस्तिकः, श्वस्त्यः ॥ ८४ ॥ चिर-परुत्-परारेः नः।६।३। ८५ । एभ्यः शेषेऽर्थे त्नो वा स्यात् । चिरत्नम् , परुत्नम् , परारित्नम् । चिरंतनम् , परुत्तनम् , परारितनम् ॥८५॥ पुरा नः। ६ । ३ । ८६ । पुराशब्दात् कालार्थाच्छेषेऽर्थे नो वा स्यात् । पुराणम् , पुरातनम् ॥ ८६ ॥ पूर्वाह्नाऽपराहणात् तनद । ६।३। ८७। आभ्यां शेषेऽर्थे तन वा स्यात् । पूर्वाह्नेतनः, अपरावेतनः । पौर्वाह्निकः, आपराह्निकः ॥ ८७ ॥ सायं-चिरं प्राहे-प्रगेऽव्ययात् । ६ । ३ । ८८ । एभ्योऽव्ययाच कालार्थात् शेषेऽर्थे तनड् नित्यं स्यात् । सायंतनम् , चिरन्तनम्, प्राढेतनम् , प्रगेतनम् , दिवातनम् ॥ ८८॥ · भऋतु-सन्ध्याऽऽदेरण । ६ । ३ । ८९ । भं नक्षत्रम् । तदर्थांद, ऋत्वर्थात् सन्भ्याऽऽदेश्च कालार्थाच्छेषेऽर्थेऽण् स्यात् । पौषः, गृष्मः सान्ध्या, आमावास्यः ॥ ८९ ॥ संवत्सरात् फल-पर्वणाः । ६।३ । ९० । अस्मात् फले पर्वणि च शेषेऽर्थेऽण् स्यात् । सांवत्सरं फलं पर्व वा ॥९॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy