________________
[४५४] हैमशब्दानुशासनस्य
मध्यात् मः । ६ । ३ । ७६ । मध्यशब्दाच्छेषेऽर्थे म: स्यात् । मध्ये जातो मध्यमः ॥
मध्ये उत्कर्षाऽपकर्षयोरः। ६ । ३ । ७७।
अनयोर्मध्यार्थयोर्मध्यात् शेषेऽर्थे अः स्यात् । नात्यु. स्कृष्टो नात्यपकृष्टो मध्यपरिमाणो मध्यो विद्वान् ।। ७७ ॥ ..
अध्यात्माऽऽदिभ्य इकण । ६।२७८। एभ्यः शेषेऽर्थे इकण् स्यात् । आध्यात्मिकम्, आधिदैविकम् ।। ७८ ॥
समानपूर्व-लोकोत्तरपदात् । ६।३ । ७९ ।
समानशब्दपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण् स्यात् । सामानग्रामिकः ऐहलौकिकः ॥ ७९ ॥ .. वर्षाकालेभ्यः ।६।३ । ८०।
वर्षायाः कालविशेषार्थाच शेषेऽर्थे इकण् स्यात् । वार्षिकः, मासिकः ॥८॥
शरदः श्राद्ध कर्मणि । ६ । ३ । ८१ । अस्मात् पितृकार्य शेषेऽर्थे इकण् स्यात् । शारदिकं श्राद्धम् ॥ ८१॥
नवा रोगाऽऽतपे। ६ । ३ । ८२ । शरदो रोगे आतपे च शेषेऽर्थे इकण वा स्यात् । शारदिकः, शारदो रोग आतपो वा ॥ ८२ ॥
निशा-प्रदोषात् । ६ । ३ । ८३ । . आभ्यां शेषेऽर्थे इकण् वा स्यात् । नैशिका, नैशः। प्रादोषिका, प्रादोषः ॥८३ ॥