SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीयः पादः ॥ 'शेषे । ६ । ३ । १ । अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे इतोऽनुक्रम्यमाणं वेदितव्यम् ॥ १ ॥ नद्यादेरेयण | ६ | ३ | २। एभ्यः प्राग्जितीये शेषेऽर्थे एयणं स्यात् । नादेयः, वानेयः । शेष इत्येव ! समूहे नादिकम् ॥ २ ॥ १ राष्ट्राद् इयः । ६ । ३ । ३ । राष्ट्रशब्दात् शेषप्राग्जितीयेऽर्थे इयः स्यात् राष्ट्रियः ॥ ३ ॥ दूराद् एत्यः । ६ । ३ । ४ । दूरात् शेषेऽर्थे एत्यः स्यात् । दूरेत्यः ॥ ४ ॥ उत्तराद् आहञ् । ६ । ३ । ५ । उत्तरशब्दात् शेषेऽर्थे आहञ् स्यात् । औत्तराहः ॥५॥ पारावाराद् ईनः | ६ | ३ |६| पारावारशब्दात् शेषेऽर्थे ईनः स्यात् । पारावारीणः ॥ ६ ॥ व्यस्त-व्यत्यस्तात् । ६।३।७। पारावारात् शेषे ईनः स्यात् । पारीणः, अवारीणः, अवारपारीणः ॥ ७ ॥ १ उपयुक्तादन्यः शेषः । अपत्यादिभ्यः संस्कृतभक्ष्यान्तेभ्योऽन्योऽर्थः शेष उच्यते ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy