________________
___ स्वोपज्ञलघुवृत्तिः [५] . यु-प्राग्-अपार उदक्-प्रतीचो यः।६।३।।
दिवशब्दात् प्राच अपाचे उदच् प्रत्यच् इत्येतेभ्यश्चाव्ययानव्येभ्यः शेषेऽर्थे यः स्यात् । दिव्यम्, प्राच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम् ॥८॥
ग्रामाद ईना च । ६ । ३ । ९। ग्रामात् शेषऽर्थे ईनञ् यश्च स्यात् । ग्रामीणः, ग्राम्यः॥
कन्यादेश्चैयक ।६।३।१०। कठ्यादिभ्यो ग्रामाच शेषे एयकञ् स्यात् । कात्रेयका, पौष्करेयका ग्रामेयकः॥१०॥
कुण्ड्यादिभ्यो यलुक् च । ६।३।११ । कुण्ड्यादिभ्यः शेषेऽर्थे एयकञ् स्यात् , तद्योगे च यो लुक् । कोण्डेयकः, कोणेयकः ॥ ११ ॥
कुल-कुक्षि-ग्रीवात् श्वाऽस्यलङ्कारे ।६।३।१२। एभ्यः शेषेऽर्थे यथासङ्ख्यमेयकञ् स्यात् । कौलेयकः श्वा, कौक्षेयकोसिः, ग्रेवेयकोऽलङ्कारः ॥ १२ ॥
दक्षिणा-पश्चात् पुरसस्त्यण । ६।३।१३। ____ एभ्यः शेषेऽर्थे त्यण् स्यात् । दाक्षिणात्यः, पाश्चात्या, पौरस्त्यः ।। १३ ॥
वह्नि-ऊर्दि-पदि कापिश्याः टायनण् । ६।३ । १४ । __ एभ्यः शेषेऽर्थे टायनण स्यात् । वाहायनः, औयना, पार्दायनः, कापिशायनी द्राक्षा ॥ १४॥
रङ्कोः प्राणिनि वा । ६।३।१५। रङ्कुशब्दात् प्राणिनि विशिष्टे शेषेऽर्थे टायन वा स्यात् ।राङ्कवायणः, राङ्कयो गौः। कम्बलस्तु राङ्कवः॥१५॥