________________
स्वोपज्ञलघुवृत्तिः [४४३] . संस्कृते भक्ष्ये । ६।२।१४०।
सप्तम्यन्तात् संस्कृते भक्ष्ये यथाविहितं प्रत्ययः स्यात् । भ्राष्ट्रा अपूपाः ॥ १४ ॥
शूलोखाद् यः। ६ । २ । १४१ । आभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये या स्वात्। शूल्यम् , उख्यं मांसम् ॥ १४१॥
क्षीरादेयण । ६ । २ । १४२ । क्षीरात् सप्तम्यन्तात् संस्कृते भक्ष्ये एयण् स्यात् । क्षैरेयी यवागूः ॥ १४२ ॥
दन इकण | ६ । २।१४३ । दनः सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् स्यात् । दाधिकम् ॥ १.४३ ॥
वादश्चितः। ६ । २। १४४ । अस्मात् सप्तम्यन्तात् संस्कृते भक्ष्येऽर्थे इकन वा स्यात् । औदश्विकम् , औदश्वितम् ॥ १४४ ॥
कचित् । ६।२।१४५। अपत्यादिभ्योऽन्यत्रार्थे क्वचिद् यथाविहितं प्रत्ययः स्यात् । चाक्षुष रूपम् , आश्वो रथः ॥ १४५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुकृत्तौ षष्ठस्याध्यायस्य
द्वितीयः पादः समाप्तः॥६॥२॥
१ अन्यत्राऽप्यर्थे । यथा चक्षुषा गृहयते चाक्षुषं रूपम् , श्रावणः भन्या, यानो रखः, स्पार्शनः स्पर्शः, अश्वैरहयते आश्वः। एवं दृषदि पिष्टा दार्षदा., उदूखले धुण्यः मौदूखलः, चतुमिरहयते चातुरम् , सम्प्रति युज्यते साम्प्रतमित्यायपि बेयम् ।