________________
-
[४४२] हेमशब्दानुशासनस्य
अस्मात् टान्तात् छन्ने रथे इन् स्यात । पाण्डुकम्बली रथः ॥ १३२॥
.. दृष्टे साम्नि नाम्नि १६ । २ । १३३ ।
तेनेति टान्तात, दृष्टं सामेत्यर्थे यथाविहितं प्रत्ययः स्यात् । संज्ञायाम् । क्रोचं साम, कालेयम् ॥ १३३॥ ..
गोत्राद् अङ्कवत् । ६।२। १३४। गोत्रवाचिनः टान्ताद् दृष्टं सामेत्यर्थेऽङ्क इव प्रत्ययः स्यात् । औपगवकं साम ॥ १३४ ॥
वामदेवाद् यः। ६ । २।१३५। अस्मात् टान्ताद् दृष्टे साम्नि यः स्यात् । वामदेव्यं साम ॥१३५ ॥
डिद वाऽण।६।२। १३६ । - दृष्टं सामेत्यर्थेऽण् डिद् वा स्यात् । औशनम् , औशनसम् ॥ १३६ ॥
वा जाते दिः। ६ । २।१३७। जातेऽर्थे योष्ण द्विर्विहितः स डिद्वा स्यात् । शात. मिषः, । शातभिषजः। द्विरिति किम् ? हैमवतः ॥३७॥
तत्रोधृते पात्रेभ्यः । ६ । २ । १३८ । तत्रेति सप्तम्यन्तात् पात्रार्थाद् उद्धृतेऽर्थे यथाविहितं प्रत्ययः स्यात् । शारावः ओदनः ।। १३८ ।
स्थण्डिलात् शेते व्रती । ६ ।२ ११३९ । स्थण्डिलात् सप्तम्यन्तात् शेते व्रतीत्यर्थे यथाविहितं प्रत्यय: स्यात् । स्थाण्डिलो भिक्षुः ॥ १३९ ॥ .
कुञ्चेन दृष्टं साम क्रौञ्चम् , सामविशेषनामेदम् । एवं काळेयम् ।