SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [४४१] वेत्त्यधीते वेत्यर्थे इकः स्यात् , । पूर्वपदिका, पदिकः, पदोत्तरपदिकः ॥ १२५ ॥ पद-क्रम-शिक्षा-मीमांसा-साम्नोऽकः । ६ । २।१२६ । एभ्यो वेत्त्यधीते वेत्यर्थेऽकः स्यात् । पदकः, क्रमका, शिक्षकः, मीमांसक, सामकः ॥ १२६ ॥ स-सर्वपूर्वात् लुप् । ६ । २ । १२७ । सपूर्वात सर्वपूर्वाच्च वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्याद् । सवार्तिकः, सर्ववेदः ॥ १२७॥ सङ्ख्याकात् सूत्रे । ६ । २ । १२८ । सङ्ख्यायाः परो यः का, तदन्तात् सूत्रार्थाद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुपू स्यात्। अष्टकाः पाणिनीयाः॥ प्रोक्तात् । ६ ।२।१२९ । प्रोक्तार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । गोतमेन प्रोक्तं गौतमम्, तद्वेत्त्यधीते वा गौतमः ॥ वेदेनब्राह्मणमत्रैव । ६ । २ । १३० । प्रोक्तप्रत्ययान्तं वेदवाचि, इन्नन्तं ब्राह्मणवाचि चाsत्रैव वेत्त्यधीते वेति विषये एव प्रयुज्यते । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः ताण्डयन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः ॥ १३० ॥ तेन च्छन्ने रथे । ६ । २ । १३१ । तेनेति तृतीयान्तात् छन्नेऽर्थे यथाविहितं प्रत्ययः स्यात् । वास्त्रो रथः ॥ १३१ ॥ पाण्डुकम्बलाद् इन् । ६ । २ । १३२ । १ अष्टावध्यायाः परिमाणमस्य अष्टकं सूत्रम्, तद् विदन्त्यधीयते वेति अष्टका पाणिनीयाः, एवं दशाध्यायमुमास्वातिब्धं तत्त्वार्थसूत्रं विदन्तीति दशका उमास्वातीयाः। ५६
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy