SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ [४४०] हेमशब्दानुशासनस्य - पदकल्पलक्षणान्तेभ्यः क्रत्वादेश्च वेत्त्यधीते वेत्यर्थे इकण् स्यात् । पौर्वपदिकः, मातृकल्पिकः, गौलक्षणिकः, आग्निष्टोमिका, यावक्रीतिका, वासवदत्तिकः॥११९॥ अकल्पात् सूत्रात् । ६।२।१२० । कल्पवर्जात् परो यः सूत्रः तदन्ताद वेत्त्यधीते वेत्यर्थे इकण् स्यात् । वार्तिकसूत्रिकः। अकल्पादिति किम् ? सौत्रा, काल्पसौत्रः ॥ १२०॥ अधर्म-क्षत्र-त्रि-संसर्गाऽङ्गाद् विद्यायाः ।६।२।१२१॥ धर्मादिवर्जात् परो यो विद्याशब्दः तदन्ताद् वेत्त्यधीते वेत्यर्थे इकण् स्यात् । वायसविधिकः । अधर्मादेरिति किम् ? वैद्यः, धार्मविद्यः, क्षात्रविद्यः, त्रैविद्यः, सांसर्गविद्यः, आङ्गविद्यः ॥ १२१ ॥ याज्ञिकौकुत्थिक-लौकायितिकम् । ६ । २।१२२ । एते वेत्यधीते वेत्त्यर्थे इकणन्ता निपात्यन्ते । याज्ञिकः, औकत्थिकः, लोकायितिकः ॥ १२२ ॥ अनुब्राह्मणादिन् । ६।२।१२३ । अस्माद् वेत्त्यधीते वेत्यर्थे इन स्यात् । अनुब्राह्मणी ॥ शत-षष्टेः-पथ इकट् । ६ । २।१२४ । आभ्यां परो यः पन्थास्तदन्ताद् वेत्त्यधीते वेत्यर्थे इकट् स्यात् । शतपथिकी, पष्टिपथिकः ॥ १२४ ॥ पदोत्तरपदेभ्य इकः।६।२। १२५ ॥ पदशब्द उत्तरपदं यस्य तस्मात् पदात् , पदोत्तरपदाच १ वायसस्य विद्यां वेत्तीति । त्र्यवयवा विद्या त्रिविद्या तां वेत्यधीते वा इति त्रैविद्यः। आचाराङ्गाऽऽपनि द्वादशाङ्गानि गणधरब्धानि जैनानां मूलसूत्राणि वेत्त्यधीते वेति भाजविद्यादिषु इकण् न स्यात् ।।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy