________________
[४३४] हेमशब्दानुशासनस्य
राऽश्माऽऽदेः। ६ । २।७९ । चातुरर्थिको देशनाम्नि रः स्यात् । अश्मरः यूषरः ॥७९॥
प्रेक्षाऽऽदेरिन् । ६ । २ । ८० । चातुरर्थिको देशनाम्नि इन् स्यात् । प्रेक्षी, फलकी॥८०॥
तृणाऽऽदेः सल् । ६।२ । ८१ । चातुरर्थिको देशनाम्नि सल स्यात् । तृणसा, नदसा ॥ ८१ ॥
काशाऽऽदेरिलः । ६।२ । ८२ । अस्मात् चातुरार्थको देशनाम्नि इलः स्यात् । काशिलम्, वाशिलम् ॥ ८२ ॥
अरीहणाऽऽदेरकण । ६।२ । ८३ । चातुरर्थिको देशनाम्न्यकण् स्यात् । आरीहणकम् , खाण्डवकम् ॥ ८३ ॥
सुपन्थ्यादयः । ६।२।८४। चातुरर्थिको देशनाम्नि ज्यः स्यात् । सौपन्थ्यम्, सौवन्भ्यम् ॥ ८४ ॥
सुतङ्गमाऽऽदेखि । ६ । २ । ८५। चातुरार्थको देशनाम्नि इब् स्यात् । सौतङ्गमिः, मौरिवित्तिः ॥ ५॥
बलाऽऽदेर्यः । ६ । २ । ८६ । चातुराको देशनाम्नि यः स्यात् । बल्यम्, चुल्यम् ॥