SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुत्तिः [४३५] अहरादिभ्योऽजू । ६ । २। ८७ । चातुरर्थिको देशनाम्नि अञ्स्यात्। आक्षम्, लोमम् ।। सख्यादेरेयण । ६। २ । ८८ । चातुरर्थिको देशनाम्नि एयण् स्यात् । साखेया, साखिदत्तेयः ॥ ८८ ॥ पन्थ्यादेरायनण । ६ । २ । ८९ । चातुरर्थिको देशनाम्नि आयनण स्यात् । पान्थायनः, पाक्षायणः ॥ ८९ ॥ कर्णाऽऽदेरायनिने । ६ । २ । ९० । चातुरर्थिको देशनाम्नि आयनिज स्यात् । कार्णायनिः, वाशिष्ठायनिः ॥ ९० ॥ उत्काराऽऽदेरीयः । ६ । २ । ९१। चातुरर्थिको देशनाम्नि ईयः स्यात् । उत्करीयः सङ्करीयः ॥ ९१ ॥ नडाऽऽदेः कीयः। ६ । २ । ९२ । चातुरर्थिको देशनाम्नि कीयः स्यात् । नडकीयः, प्लक्षकीयः॥ ९२ ॥ कृशाश्वाऽऽदेरीयण । ६ । २ । ९३ । चातुरार्थको देशनाम्नि ईयण स्यात् । काश्विीयः, आरिष्टीयः ॥९३॥ ऋश्यादेः कः । ६ । २ । ९४ । चातुरर्थिको देशनाम्नि कः स्यात् । ऋश्यकः, न्यग्रो. धकः॥ ९४॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy