SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [ ३] नद्यां मतुः । ६।२।७२। निवासाद्यर्थचतुष्के यथायोगं मतुः स्यात्, नयां देशनाम्नि । उदुम्बरावती ॥७२॥ मध्वादेः । ६ । २ १७३। एभ्यश्चातुरर्थिको देशनाम्नि मतुः स्यात् । मधुमान् , विसवान् ॥ ७३॥ नड-कुमुद-वेतस-महिषात् डित् । ६ । २ । ७४ । एभ्यो डित् मतुश्चातुरार्थको देशनाम्नि स्यात् । नड्वान् , कुमुद्वान् , वेतस्वान् , महिष्मान् ॥ ७४ ॥ नड-शादाद वलः । ६।२७५ । आभ्यां चातुरार्थको डिद् वलो देशनाम्नि स्यात् । नड्वलम्, शाड्वलम् ॥ ७५ ॥ शिखायाः । ६ । २ । ७६। अस्मात् चातुरार्थिको देशनाम्नि वलः स्यात् । शिखावलं पुरम् ॥ ७६ ॥ शिरीषादिक-कणौ । ६ । २ । ७७ । अस्माद् देशनाम्नि चातुरर्थिकाविककणो स्याताम् शिरीषिका शरीषकः ॥ ७७॥ शर्कराया इकण-ईयाऽण् च । ६ । २ । ७८ । अस्माचातुरर्थिका देशनाम्नि इकणीयाण, चकारात् इक-कण इत्येते स्युः। शार्करिकः, शर्करीयः, शॉर्कर, शर्करिकः, शार्करकः ॥७८ ॥ , निवासाऽदूरभवयोः तदत्रास्ति-तेन निर्वृतमित्यत्रार्षचतुष्टये । ५५
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy