SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ [४३२] हैमशब्दानुशासनस्य अङ्गादिवर्जात षष्ठयन्ताद् राष्ट्रेऽर्थेऽण् स्यात् । शैवम् । अङ्गादिवर्जनं किम् ? अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ॥ ६५ ॥ राजन्याऽऽदिभ्योऽकत्र । ६ । २ । ६६ । - एभ्यो राष्ट्रेऽकञ् स्यात् । राजन्यकम्, दैवयातवकम् ॥६६॥ वसातेर्वा । ६ । २ । ६७। अस्माद राष्ट्रऽकञ् वा स्यात् । वासातकम्, वासातं राष्ट्रम् ॥ ६७॥ भौरिक्यैषुकार्यादेविध-भक्तम् । ६ । २ । ६८ । . . भौरिक्यादे राष्ट्र विधः, एषुकार्यादेश भक्तः स्यात् । भौरिकिविधम् , भौलिकिविधम् । ऐषुकारिभक्तम्, सारस्यायनभक्तम् ॥ ६८॥ निवासाऽदूरभवे इति देशे नाम्नि। ६ । २ । ६९ । __षष्ठयन्तात् निवासाऽदूरभवयोर्यथाविहितं प्रत्ययः स्यात, तदन्तं चेद् रूढम् । देशनाम शैवम्, वैदिशं पुरम् ॥६९॥ तदत्रास्ति । ६ । २ । ७०।। तदिति प्रथमान्ताद्, अत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययः स्यात् , प्रथमान्तं चेदस्तीति प्रत्ययान्तं चेद् देशनाम । औदुम्बरं पुरम् ॥ ७० ॥ तेन निवृत्ते च । ६ । २ । ७१। तेनेति तृतीयान्तात् निवृत्तेऽर्थे यथाविहितं प्रत्ययः स्यात् , देशनाम्नि । कौशाम्बी ॥७१ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy