SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [४३१] फले । ६ । २ । ५८ । विकारेऽवयवे चार्थे प्रत्ययस्य लुप् स्यात् । आमलकम् ॥५०॥ ___ प्लक्षाऽऽदेरण । ६ । २ । ५९ । एभ्यो विकारेऽवयवे वा फलेऽण् स्यात् । प्लाक्षम्, आश्वत्थम् ।। ५९ ॥ जम्ब्बा वा । ६ । २ । ६०। जम्ब्बा विकारेऽवयवे वा फलेऽण वा स्यात् । जाम्बवम्, जम्बु, जम्बूः ॥ ६ ॥ न द्विरद्रुवय-गोमय-फलात् । ६ । २ । ६१ । द्रुवयगोमयो फलार्थ च मुक्त्वाऽन्यस्माद् विकारावयवयोर्द्विः प्रत्ययो न स्यात्, कापोतस्य विकारोऽवयवो वेति मयट् न स्यात् । अदुवयेत्यादीति किम् ? द्रौवयं खण्डम् , गोमयं भस्म, कापित्थो रसः ॥ ६१॥ पितृ-मातुर्य-डुलं भ्रातरि। ६ । २। ६२ । आभ्यां भ्रातर्यर्थे यथासङ्ख्यं व्यडुलो स्याताम् । पितृव्यः, मातुलः ॥ ६२॥ पित्रो महद । ६।२। ६३ । . ... पितृमातृभ्यां मातापित्रोर्डामहट् स्यात् । पितामहः, पितामही, मातामहः, मातामही ॥६३ ॥ अवेर्दुग्घे सोढ-दूस-मरीसम् । ६ । २ । ६४ । अवेर्दुग्धेऽर्थे एते स्युः । अविसोढम्, अविदूसम्, अविमरीसम् ॥ ६४॥ राष्ट्रेऽनङ्गाऽऽदिभ्यः । ६ । २ । ६५। . १ पक्षे प्रत्ययलुपि नपुंसकस्त्रीलिङ्गते भवतः, जम्बु इति नपुंसकािम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy